________________
26
आलम्बनपरीक्षा [आलम्बनत्वं स्यात् ] इत्यनैकान्तिकदोषः सिध्यति । यद्यप्येवम् । तथापि नायं दोषः ।
अतदाभतया इति ।
किमर्थमिदम् । स्वप्रतिज्ञाप्रसाधनार्थम् । न परपक्षदोषकथनमात्रेण स्वार्थः सिध्यति । स्वविज्ञानाकाराजनकत्वात् न विषयः परमाणुश्चक्षुरादिवत् । इति प्रतिपादनार्थमिदं वचनम् । यदि इदं तद्धेतुतावचनम् , शास्त्रकारः परपक्षं पुरस्कृत्य परसाधारणं मतं विशदयति इति भवेत् । तदा परप्रतिषेधे मनः प्रकाश्य सिद्धदूषणः तद्वचनं प्रतिक्षिपेत् । तदैकान्तिकः पक्षः स्वीक्रियते । अनैकान्तिकः परपक्षः असंमतिशङ्की ।
पूर्व परः अनैकान्तिकदूषणमुत्थापयति । कथं दुष्टं स्वपक्षानुमानं कल्पयसि । प्राकृतजना वदन्ति । व्यभिचारि अनियतमसाधनमिति । तत् संदेहप्रापकम् । तस्मात् अन्यत् प्रमाणं स्थापनीयम् । अतदाभ इतीदं अनिर्धारितस्वभावेषु परमाणुषु कदाचित् स्यात् । यथाकारं विज्ञानमुदेतीति यनिर्धारणम् । तदभावात् स्पष्टं ज्ञायते निर्धारणस्याप्यस्यानवकाश इति । अनिर्धारितस्वभाववचनौचित्यात् । तत्कारणं नालम्बन मिन्द्रियपरमाणुवत् इति केवलं भवति । अन्येऽपि विज्ञानकरणविशेषाः चक्षुर्विज्ञानसाधनानि प्रथन्ते न पुनः परमाणुस्वरूपप्रत्यायकाः । अतदाकारत्वात् । इन्द्रियविज्ञानवत् विज्ञानान्तराणि वाच्यानि । अक्षवद्वचनं वस्तुतः प्रदर्शनार्थम् । दृष्टान्तान्तरमप्यर्थापत्त्या आपतति । इदं कारणताया वचनमपि अपार्थकम् । इति ।
Lit. पुरःसाधयित्वा for परसंमतम्