________________
आलम्बनपरीक्षाव्याख्या
.23 एतद्वयतिरिक्तमर्थान्तरमस्तीति गृह्यते । तत् तद्विपरीतं प्रकाशयति । प्रकाशितश्च सोऽर्थान्तरग्रहणयोग्यत्वात् अर्थ इति उच्यते ।
कथमुच्यते समग्री प्रतीत्येति । न हि सामग्री द्रव्यं युज्यते । [यत्तर्हि तथागतसत्यं दूष्येत इति । तत् स्वतः पूर्वोत्तरयुक्तिविरुद्धम् । मम तु का हानिः । द्रव्यं सामग्रीच्च प्रतीत्य इति स्वीकृतत्वात् । दोषान्तरमपि विवक्षितं स्यात् । अतोऽयं दोषोऽपि परिहीयते ।
परमाणुं वा कल्पयन्ति । इति । यद्यपि परमाणुः समदयमात्रनिरुद्धो दृष्टः । तथापि द्रव्यद्वयं प्रत्ययः न सङ्घातः । यथा रूपादीनि इन्द्रियाणां वर्तमानविषया अपि असंकीर्णाः । इन्द्रियशक्तेः प्रतिनियतत्वात् । नष्टेऽपि द्रव्ये सत्तासमर्थ व्यणुकमालम्बनं सिध्यति ।
तत्कारणत्वादिति । तस्य चक्षुरादिविज्ञानस्य कारणत्वात् । तद्धि अवयवार्थसन्निकर्षसमुत्थम् । तथाचाहुः । तदालम्बनार्थों विज्ञानस्य जननहेतुः सर्वप्रत्ययवृत्तित्वात् ।
तत्सङ्घातं वा । इति । तद्वादिनो वदन्ति । परमाणुभाव्यसमुदायस्तदालम्बनमिति ।
तदाभविज्ञानस्य जायमानत्वात् । इति । सङ्घातस्य एतद्ज्ञानजननात् निश्चीयते स आलम्बनमिति । यथाह कश्चित् । 'यत् विज्ञानं तदाकारयुक्तं, सोऽस्य विषय इति । इमौ
" Lit. यदि