Book Title: Alamban Pariksha Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri Publisher: Adyar LibraryPage 49
________________ आलम्बनपरीक्षाव्याख्या स विषय इत्यादि । स स्वभावो यदुत स्वसमानाकार प्रत्यायननिर्धारणम् । कथं पुनस्तत्प्रतीयते । तदाकारतया" जायमानत्वात् इति । एतन्मनो वचनम् । तदाकारसरूपं विज्ञानमुदेति । [यत् ] ३°तदानुरूप्यं तत्तु तद्विषयप्रत्यायनमुच्यते । वस्तुतो विज्ञानं विना विज्ञेयान्तरस्यासतः विज्ञानोत्पादकहेतुता कुतः । तथापि अस्त्येव पूर्व विषयाकारः । स तदात्मनि आदर्श बिम्बवदर्ग्यते । इदमेव तद्विषयप्रत्यायकत्वेन संमतम् । द्वयणुकस्वरूपं तु विज्ञानाकारं नानुवर्तते । येन परमाणुरपि विषयः स्यात् । कारणमपि इति । नैतावता कारणमालम्बनम् । अक्षवत् इति । कारणत्वेऽपि नालम्बनम् । यदि कारणत्वेन आलम्बनं स्वीक्रियते । इन्द्रियमपि एतत्समानं "तत् साधयेत् । तदाकारयुक्तत्वहेतोरसिद्धिदोषः पूर्वमुक्त एव इत्युक्तं भवति । तथा च मनो न केवलं कारणतया प्रथते । इन्द्रियतया आलम्बनाकारतयापि । यद्युक्तरीत्या कारणं साधयसि । तदा तस्य कारणत्वात् कथमालम्बनत्वम् । इन्द्रियस्यापि [कारणत्व] मस्ति Is Lit. प्रत्येत. 1 Lit. तदाकारवत् 10 Lit. तद्रूपानुसरणात् 21 = विज्ञानात्मनि 2 = आलम्बनम्Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142