Book Title: Alamban Pariksha Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri Publisher: Adyar LibraryPage 47
________________ आलम्बनपरीक्षाव्याख्या .23 एतद्वयतिरिक्तमर्थान्तरमस्तीति गृह्यते । तत् तद्विपरीतं प्रकाशयति । प्रकाशितश्च सोऽर्थान्तरग्रहणयोग्यत्वात् अर्थ इति उच्यते । कथमुच्यते समग्री प्रतीत्येति । न हि सामग्री द्रव्यं युज्यते । [यत्तर्हि तथागतसत्यं दूष्येत इति । तत् स्वतः पूर्वोत्तरयुक्तिविरुद्धम् । मम तु का हानिः । द्रव्यं सामग्रीच्च प्रतीत्य इति स्वीकृतत्वात् । दोषान्तरमपि विवक्षितं स्यात् । अतोऽयं दोषोऽपि परिहीयते । परमाणुं वा कल्पयन्ति । इति । यद्यपि परमाणुः समदयमात्रनिरुद्धो दृष्टः । तथापि द्रव्यद्वयं प्रत्ययः न सङ्घातः । यथा रूपादीनि इन्द्रियाणां वर्तमानविषया अपि असंकीर्णाः । इन्द्रियशक्तेः प्रतिनियतत्वात् । नष्टेऽपि द्रव्ये सत्तासमर्थ व्यणुकमालम्बनं सिध्यति । तत्कारणत्वादिति । तस्य चक्षुरादिविज्ञानस्य कारणत्वात् । तद्धि अवयवार्थसन्निकर्षसमुत्थम् । तथाचाहुः । तदालम्बनार्थों विज्ञानस्य जननहेतुः सर्वप्रत्ययवृत्तित्वात् । तत्सङ्घातं वा । इति । तद्वादिनो वदन्ति । परमाणुभाव्यसमुदायस्तदालम्बनमिति । तदाभविज्ञानस्य जायमानत्वात् । इति । सङ्घातस्य एतद्ज्ञानजननात् निश्चीयते स आलम्बनमिति । यथाह कश्चित् । 'यत् विज्ञानं तदाकारयुक्तं, सोऽस्य विषय इति । इमौ " Lit. यदिPage Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142