Book Title: Alamban Pariksha Author(s): Dinnaga, Dharmapala, N Aiyaswami Shastri Publisher: Adyar LibraryPage 46
________________ आलम्बनपरीक्षा 'मर्यादा प्राप्यते । किञ्च अभ्यासज्ञानबोध्यरूपतत्त्वस्य तर्कागोचरत्वात् दृश्यवत् प्रतिष्ठितत्वाच्च इहेदं तत्त्वं] श्रवणमननभावनाजन्यज्ञानमात्रविषयः । तथा मनोविज्ञानालम्बनार्थोऽत्यन्तमभावः सिध्यति । अस्य स्वसन्ततावशक्तप्रत्ययत्वात् । गतानागतप्रत्यययोः पुनरवस्तुत्वात् असंस्कृतयत् । तदर्थमादिवचनं पञ्चविज्ञानकायसंग्राहकम् । ___ तर्हि इन्द्रियविज्ञानगृहीतं सर्व मनो विजानाति । इति चेत् । तदपि कथम् । नैतदिन्द्रियविज्ञानसमकालम् । अनन्तरं वा। रूपाद्यालम्बनस्य निरुद्धत्वात् । न वा वर्तमान [आलम्बन] प्रत्ययः । इन्द्रियविज्ञानगृहीतत्वात् । तन्मनोविज्ञानं स्वतो बाह्यार्थग्रहणस्वभाव[श्चेत् । तदा बधिरान्धादीनामभावः स्यात् । अनुमानविरोधि च इन्द्रियान्तरम् । अधिकरूपनिराकरणस्य इष्टत्वात् । तथा मनोविज्ञाने न पुनराग्रहः । चक्षुरादिविज्ञानानि 'रूपमाश्रित्य "आकारवन्ति । अनावरणमक्रियास्वभावमात्रम् । . अतोऽभावः स्वयमभ्युपगम्यते । तथैव 1 करणं मनः । तदालम्बनं 1प्रत्यक्षमावि । ग्राह्यस्वभावत्वेन अत्यन्तविषमगतित्वात् । तदालम्बनतानिराकरणं सम्यक् मन्यामहे । तेन च तदाश्रयतानिराकरणम् । समकालीनशक्तिरूपेन्द्रियं तत्कल्पयिष्यति । अथापि आह । बाह्यार्थ इति । Or व्यवस्था. "Lit. अभ्यासकार्यज्ञान. 9 tsun-huai, to preserve and cherish. 1° Lit. रूपाश्रयप्रत्ययानि. " Lit. प्रदेशवन्ति. 1" pen=root, मूल, etc. 13 The translation (तदालम्बनं . . • कल्पयिष्यति) is tentative.Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142