________________
आलम्बनपरीक्षा
यदाभासा न तस्मात्सा योऽर्थः स्वावभासिविज्ञप्तिमुत्पादयति सह्यालम्बनं युज्यते । यतः स एव ह्युत्पत्तिप्रत्यय उच्यते । संघातस्तु नैवम् ।
द्रव्याभावाद् द्विचन्द्रवत् । इन्द्रियवैकल्यात् द्विचन्द्रदर्शनस्य तदाभत्वेऽपि न तस्य विषयोऽस्ति । तद्वत् संघातः द्रव्यतोऽसत्त्वेन अकारणत्वात् नालम्बनम् ।
एवं बाह्यद्वयञ्चैव न युक्तं मतिगोचरः ॥ २ ॥ अणुः कलापश्चेति बाह्योऽर्थः नालम्बनम् , एकाङ्गवैकल्यात् ॥ तत्र
साधनं सञ्चिताकारमिच्छन्ति किल केचन' । सर्वोऽर्थो बह्वाकारः अतः तत्र केनचिदाकारेण प्रत्यक्ष इष्यते । परमाणुष्वप्यस्ति सञ्चिताभज्ञानोत्पत्तिकारणभावः ।
अण्वाकारो न विज्ञप्तेरर्थः कठिनतादिवत् ॥ ३ ॥
* Representative of this view in later periods seems to be Bhadanta Subhagupta ; cf. Tattvas. pan. p. 551 : समुदिता एवोत्पद्यन्ते विनश्यन्ति चेति सिद्धान्तात् नैकैकपरमाणुप्रतिभास इति । यथोक्तं भदन्तशुभगुप्तेनप्रत्येकपरमाणूनां स्वातन्त्र्येणास्ति संभवः (Read असंभव) । अतोऽपि परमाणूनामेकैकाप्रतिभासनम ।
=rnam. pa. du. ma. can. yin. pas. So reads S. Yamaguchi's edition. But the Xylograph reads simply ‘yin pas '. ___ Cf. the opinion of Sumati, a Digambara, cited in the Tattvas. pan. p. 554 : सामान्यविशेषात्मत्वात् सर्वपदार्थानां तुल्यातुल्यरूपेण द्विरुपाः परमाणवः । तत्र समानं यद्रूपं तदिन्द्रियैर्गृह्यते नासमानम् । ततश्चैकाकारं विज्ञानमणुष्वविरुद्धमिति प्रत्यक्षसिद्धा: परमाणवः।