________________
आलम्बनपरीक्षावृत्ति: यथा कठिनतादि विद्यमानमपि न चाक्षुषबुद्धिविषयः'। 'एवमणुत्वमपि ॥
भवेद्धटशरावादेस्तथा सति समा मतिः । घटशरावादिपरमाणुषु बहुप्वपि न कोऽपि विशेषोऽस्ति ।
आकारभेदाढ़ेदश्चेत् , यदि मन्यसे ग्रीवाद्याकारः विशेषक्रिया, येन बुद्धेर्विशेषणमुपाधिभवेत् । इति । अयमुपाधिघटादावस्ति ।
नास्ति तु द्रव्यसत्यणौ ॥ ४ ॥ प्रमाणभेदाभावात् सः, परमाणुषु द्रव्यान्तरेष्वपि पारिमाण्डल्ये भेदो नास्ति ।
अद्रव्येऽस्ति ततः स हि । आकारभेदः संवृतिसत्स्वेवास्ति न तु परमाणुषु । घटादयश्च संवृतिसन्त एव ।।
अणूनां परिहारे हि तदाभज्ञानविप्लवात् ॥ ५ ॥
द्रव्यसत्सु "अपनीतसम्बन्धिष्वपि नील-] वर्णादिवत् स्वबुद्धिर्न त्यज्यते । तथा सति इन्द्रियबुद्धीनां विषयो बहिर्नास्तीत्युपपद्यते ॥
यदन्तहेयरूपं तु बहिर्वदवभासते ।
सोऽर्थः
' Lit. अणुत्वसदृश:
=zlum. po. ' More lit. सम्बन्धिनि अपनीतेऽपि ; or सम्बन्धिन अपनयेऽपि.