________________
आलम्बनपरीक्षावृत्तिः *
आचार्यदिङ्नागकृता
नमः सर्वबुद्धबोधिसत्त्वेभ्यः
ये चक्षुरादिज्ञानस्यालम्बनं बाह्यार्थोऽस्तीतीच्छन्ति । ननु ते कल्पयन्ति परमाणून् ; तत्कारणत्वात् [ ज्ञानस्य ] | संघातं ' वा तदाभज्ञानस्य जायमानत्वात् । तत्र तावत्
यद्यपीन्द्रियविज्ञप्तेर्ग्राह्यांश: ( = अणवः) कारणं भवेत् ।
अतदाभतया तस्या नाक्षवद्विषय: स तु (अणवः) ॥ १ ॥ विषयो हि नाम यस्य ज्ञानेन स्वभावोऽवधार्यते । विषय इति । ज्ञानेन स्वरूप [ मेव] निर्धार्यते । तदाकारतया ' जायमानत्वात् । यद्यप्यणवः तत्कारणम् । तथापि न तादृशाः अक्षवत् । एवञ्च नाणवस्तावदालम्बनम् । संघातस्तु तदाभवेऽपि [ ज्ञानस्य, नालम्बनम् । यतः ]
Tanjur (Narthari), Mdo, ce (XCV) No. 5. The Tibetan version has been edited by Mr. Susumu Yamaguchi with French translation in the Journal Asiatique T. CCXIV, No 1 (1929).
1 hdus. pa.
Lit. -कारेण जननात .
3 This sentence may also read thus : अणूनां तत्कारणत्वेऽपि न तथाभावः
अक्षवत् .