Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 158
________________ Acharashn KalamagurunGyanminar तृतीय: प्रस्ताका युवतिरक्षतस्नेहा न भवति । तद्यथाअजितसेना शास्त्र सुनिश्चितधियापरिचिन्तनीय-माराधितोऽपि नृपतिः परिशङ्कनीयः । आत्मीकृताऽपि युवतिः परिरक्षणीया, शास्त्रे भीलवती नृपेचयुवतीच कुतः स्थिरत्वम् ॥१॥ ततः सभूपतिः शङ्कितमनाः संशयविस्मयाभ्यां समन्वितः सार्थवाहस्य भार्ययोः कपटचयों चरितम् । विलोकतेस्म । अनङ्गदेवोऽपि स्त्रीचरित्रं निरीक्ष्यस्मितमादधानो निजोचितांक्रियां समाचरत् । ततः पातालसुन्दरी सशर्करंदग्ध नृपतेर्यथारुचिपरिवेष्य गृहापवर्कमियाय । नृपतिरपितदुग्धविषमिव विषमं मन्यमानो मुनिरिवधृतमौनो निःस्वादतया पिबतिस्म । ॥७२।। ततः सार्थवाहः पूगीफलताम्बूलादिकं मुखवासंदचा महीधर्वमहामूल्यैर्वसनाभरणैः सत्कृत्य सन्तोषयामास । अथ गृहीतसत्कारो नृपतिः परिजनपरिकरितः सत्वरंस्वप्रासादमगमत् । इतः पातालसुन्दर्यपि तद्वेष परित्यज्य स्वकीयवस्त्राणि परिधायशीघ्रतयासुरङ्गमार्गेण भूगृहंगत्वा स्वकीयशय्यायां निश्चिन्तमानसा सुष्वाप । अथ सञ्जातसन्देहो भूपतिः कुशिकाः समादाय मुद्रितानि सर्वाणितालकानिसमुद्घाट्य भूगृहान्तरेसमागत्यविलोकयामास, यथापुराप्रसुप्तांविमुच्यनृपतिर्गतस्तथैवतदानीमपि निद्रितांता ददर्श । ततो विस्मितमानसो भूपतिस्तामुत्थापयामास । साऽप्युज्जृम्भमाणा निद्रावस्था व्यञ्जयन्ती समुत्तस्थौ। ता तथावस्था विलोक्य नृपतिः स्वचेतसि व्यचिन्तयत्-वणिग्गृहे या प्रमदा मया व्यलोकि, सात्वपरैव, इत्थं स्वमनसि समाधाय तेन रत्नोब्लसितवस्त्राभूषणानि तस्यै तद्योग्यानि यथाभिलषितं प्रदत्तानि । यतस्तस्यां कूटकारिण्यां भार्यायांमनागपि दोषस्तेन न विलोकितः । अतस्तया साकै पूर्ववत्प्रेमभरं वहमानो नृपतिर्विषयसुखमनुबभूव । अहो ? धूर्तजनस्य चित्रचरित्रन्तु धूर्तजना एव जानन्ति । यतो धूर्ताः सत्यस्यव्यलीकतामसत्यस्य सत्यताञ्च दर्शयित्वा मुग्धजनान्प्रतारयन्ति । अथैकस्मिन्दिवसे ॥७२॥ For Private And Persone n

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244