Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 176
________________ Shri Mahavir Jain Aradhana Kendra श्री अजितसेन शीलवतीचरितम् । ॥ ८१ ॥ **************************** www.kobatirth.org सिच्यमानोऽपि पाषाणो न कदाप्यार्द्रतां दधाति । निजसङ्कल्पं सत्यापयितुकामः स सदुपदेशमपि नामन्यत यतः -अरण्यरुदितं कृतं शवशरीरमुद्वर्त्तितम् । श्वपुच्छमवनामितं यदुखरभूमिषु वर्षितम् । स्थलेऽब्जमवरोपितं बधिरकर्णजापः कृतः । धृतोन्धमुखदर्पणो यदबुधो जनः शिक्षितः ॥ १ ॥ बधिरात्रे वृथा गीतं, वृथाष्टष्टिर्महार्णवे । वृथा जन्म कुशीलानां, वृथामूर्खोपदेशनम् ॥ २ ॥ निजं शिक्षयतः सर्वाञ्जनानवमत्य बालचन्द्रो निजहस्तेनैव निजं गृहं प्रज्वालयामास । भस्मीभूते तस्मिन्गृहे तेन विज्ञातं पापिनस्तस्य जारस्य बलिदानमद्य यथार्थं सञ्जातमिति विदित्वा शान्तमनसा तेन जज्ञे । अथ मैनावती कार्यविधानदचा सन्ध्यासमयमासाद्यरहोगतांतां मञ्जूषामुद्वाट्य चन्द्रसेनं वहिर्निष्कास्य स्वस्थानं विसृज्य स्वयमपि मञ्जूषामादाय निजपितुर्गृहं जगाम । तत्र गत्वा सा साश्रुलोचनेव पितरं प्रावोचत रे ! तात ! धूर्चेन तवातिवल्लभ - जामाढकेनाकुलितार्चिभागिनी । समागताऽत्रास्मिमदीयरचां, कुरुष्व तहमद हि तेन ॥ १ ॥ इत्यादि मूलतः समारभ्यसर्वं वृचान्तं पित्रे निवेद्य सा तत्रैव दिवसान्निनाय । बालचन्द्रश्चान्यरध्यायां भाटकेन गृहीते वेश्मनि निवासं चकार । ततोऽन्यदा बालचन्द्रो निजापणं गत्वा चिन्ताचान्तमानसः स्थितस्तावच्चन्द्रसेनः सोत्साहस्तदन्तिके समेत्यतं मिलित्वा तदीयमुखमुद्रां विच्छायां विलोक्य बभाषे -रे मित्र ! चिन्तयसि किं विकलस्वभावः, किं लक्ष्य से स्मितविहीनमुखाकृतिस्त्वम् । किं वस्तु केन भवदीयमपाहृतं वा दुःखं निवेद्य सुहृदं भव हीनचिन्तः ॥ १ ॥ इत्थं चन्द्रसेनगिरं निशम्य बालचन्द्रो विस्मयमवाप्य मनसि विचिन्तयति-रे दैव १ दीनमनसो ममकीदृशोऽयं, वर्वर्त्ति कर्मजनितः प्रबलोविपाकः । यद्दृष्टशिचयकृते गृहमात्मनीनं, प्रज्वालितं सतुहहाकुशलः समस्ति ॥ १ ॥ एवं विकल्प्य For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir *O**************OK तृतीय: प्रस्तावः ॥ ८१ ॥

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244