Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 197
________________ ShriMahavir Jain ArachanaKendra Acharya:shaKailassagarsunGyanmandir || कर्मान्ते दासभृत्याश्च, । पुत्रो नैव च नैव च ॥ १ ॥ तस्मानिजापत्यादिषु पित्रादिभिः सदाशिक्षाडशो नियमेन धर्त्तव्यः । । इत्थं निजपतिवचनंनिशम्यमणिसेनमाता मौनमुखी तस्थौ । एवं महानसवर्तिनोर्मातापित्रोहितवचनानिशृण्वानो मणिसेनो झटिति समवबुद्धः स्वमनसिव्यचिन्तयत्-हा दैव ? मम मातापितरौ मद्धितायसततमुद्योगं कुरुतः, अहन्त्वद्य पितृवधायखड्ग गृहीत्वा सजीभूतः । कीदृशमेतद्घातकजनोचितं कर्म मयाचिन्तितम् १ रे दैव! अस्मिन्समये महापापिनो मे जनको | हितवचनानि नाकथयिष्यञ्चेत्स्वल्पेन कालेन महाऽनर्थोऽभविष्यत् । इतिपश्चात्तापं प्रकुर्वाणो मणिसेनस्तस्मात्स्थानाच्छनैनिःसृत्य निजकरस्थितं खरं तत्स्वामिनेदत्त्वाव्याघुव्य महानसे समागत्य भोजनकर्तुमुपविष्टः । भोजनानन्तरं पूर्ववनिजविद्याभ्यासं विधाय स्वनियमानुसारेण निजजनकशुश्रूषायां व्याप्तोऽभूत् । चरणसेवा कुर्वाणो मणिसेनः सविनयं पितरं प्रोवाच-जनक ? येन पुरुषेण मानसिकः पितृहननदोषोबिहितस्तद्विशुद्ध्यर्थ तेन किं प्रायश्चित्वं विधातव्यम् । इति मणिसेनप्रश्नं श्रुत्वातत्पितासर्वतदीयंचेष्टितं ज्ञातवान् , ततस्तमब्रवीत् सूनो ? एष मानसिकपितृघातदोषस्त्वयैवोपार्जितो नत्वन्येन, तस्मात्सत्यं ब्रूहि, कीदृशं तत्स्वरूपं जातमितिशीघ्र निवेदय । इति पितृवचनं शृण्वतो मणिसेनस्य नेत्रयुगलात्रिपतन्त्यश्रुधारा निजतातस्यचरणकमलमसिञ्चत् । ततो विज्ञाततदाशयो मणिचन्द्रस्तमावास्य स्वास्थ्यंनीतवान् , तस्मिन्वये मणिसेनेनहस्तौ नियोज्य विनयवृत्त्याक्षमा याचित्वायथावृत्तं मारणचिन्तनादिसर्व वृत्तान्तं पितुरने न्यवेदि । अथ विज्ञातसर्ववृत्तान्तो मणिचन्द्रस्तनयमचीकथत्-नन्दन ? सभार्यस्त्वं प्रभाते तवश्वशुरालयंव्रज, तत्रचैकं हायनं निर्मानतयात्वंतिष्ठ, यतस्त्वंपिहननचिन्तनदोषान्मुक्तोभविष्यसि । एवं निजपितुर्वचनं स्वीकृत्य प्रभातकाले निजवस्त्रादिकं समादाय भार्या For Private And Personlige Only

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244