Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 212
________________ Shri Mahavir Jain Aradhana Kendra श्री अजितसेन शीलवतीचरितम् । ॥ ९९ ॥ 1-01 幸子举止 www.khatirth.org द्वस्तु स्पष्टं न विलोक्यते, मन्येऽहं साक्षात्कम्पपादपा इव केचन या अस्यवेश्मनि वसन्ति । यतो यदपेक्ष्यते तद्वस्तु सद्यस्ते समानीय प्रयच्छन्ति, अस्य सद्मनि किमपि वस्तु दृष्टिगोचरं न जायते, तथाऽपि सर्वमपेचितं वस्तु कुतोऽपि समानीय समर्पयन्ति । अतोऽयं सकलः प्रभावोयचाणामेवविभाव्यते । एते यक्षा मद्वेश्मनि भवन्ति चेदहं कृतार्थोभवामि, अन्यथा किमेतेन राज्यादिविभवेन १ एवं यचैकदत्तलचोनृपतिर्विस्मृत प्रधानवृत्तान्तः शून्यचेतसा भोजनं समाप्य समुत्तस्थौ । ताम्बूलादिमुखवासं दत्वाऽजितसेनः स्वयमेवानर्घ्यवसनाभरणैर्नृपतिंप्रीणयामास । ततोनृपतिर्लजां शिथिलीकृत्य दीनवदनः प्रभूतेनाग्रहेणाजित सेनं तान्यचान्ययाचे । शीलवतीवचनानुसारेण । जितसेनो भूधवं बभाषे - राजन् ! त्वदन्यो यद्यमून्यचन्याचते तर्हि प्राणान्तेऽपि न ददामि, परन्तु भवदीयं वचनं मया न निषिध्यते । युष्मदीयं कार्यमकृत्वा न मे सिद्धिः । भूपते ! किंबहुजन्पनेन ! इदं गृहादिकमपि सर्वं भवदीयमेव विभाव्यताम् । यतः - निगद्यते पञ्चमलोकपालो - घराधिपोधः प्रथितप्रभावः । किमस्त्यदेयं भुवि वस्तु तस्य सर्वस्य भोक्ता नरनाथ एव ॥ १ ॥ भवान् सुखेन स्वमन्दिरं प्रयातु, अधुनैवतान्यचान्भवदन्तिके प्रेषयिष्यामि । यतस्ते चत्वारः सन्ति, अतस्तान्पृथक् पृथक् मञ्जूषागतान्विधाय भवन्तं प्राभृतीकरिष्यामि । ततस्त्वया महतोत्सवेन सभामध्ये ता मञ्जूषा उद्धाट्य ते यच्चा बहिर्निष्कासनीयाः । इत्यजितसेनवचनेन प्रमुदितस्वान्तो नृपतिः सपरिवारः स्वनिकेतनमियाय । ततोऽजितसेनः प्रगुणीकृताश्चतस्रः पेटाः समानाय्य तासु तान्प्रधानान्पृथक् पृथक् प्रपूर्य भृत्यैरुद्वाह्य ता राजसदसिप्राहिणोत् । राजपर्षदि सिंहासनोपविष्टो यदि चोत्कण्ठितमानसो भूपतिर्बहून्सभ्य : जनान्मेलयित्वा महताडम्बरेण ता मञ्जूषा उद्घाटयतिस्म । ताम्योविनिर्गताश्चत्वारो मन्त्रिणो विकृतवेषा वैताला इव For Private And Personal Use Only •++++++++++*७ Acharya Shri Kassagarsun Gyanmandir चतुर्थः प्रस्तावः । ॥ ९९ ॥

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244