________________
Shri Mahavir Jain Aradhana Kendra
श्री अजितसेन
शीलवतीचरितम् ।
॥ ९९ ॥
1-01
幸子举止
www.khatirth.org
द्वस्तु स्पष्टं न विलोक्यते, मन्येऽहं साक्षात्कम्पपादपा इव केचन या अस्यवेश्मनि वसन्ति । यतो यदपेक्ष्यते तद्वस्तु सद्यस्ते समानीय प्रयच्छन्ति, अस्य सद्मनि किमपि वस्तु दृष्टिगोचरं न जायते, तथाऽपि सर्वमपेचितं वस्तु कुतोऽपि समानीय समर्पयन्ति । अतोऽयं सकलः प्रभावोयचाणामेवविभाव्यते । एते यक्षा मद्वेश्मनि भवन्ति चेदहं कृतार्थोभवामि, अन्यथा किमेतेन राज्यादिविभवेन १ एवं यचैकदत्तलचोनृपतिर्विस्मृत प्रधानवृत्तान्तः शून्यचेतसा भोजनं समाप्य समुत्तस्थौ । ताम्बूलादिमुखवासं दत्वाऽजितसेनः स्वयमेवानर्घ्यवसनाभरणैर्नृपतिंप्रीणयामास । ततोनृपतिर्लजां शिथिलीकृत्य दीनवदनः प्रभूतेनाग्रहेणाजित सेनं तान्यचान्ययाचे । शीलवतीवचनानुसारेण । जितसेनो भूधवं बभाषे - राजन् ! त्वदन्यो यद्यमून्यचन्याचते तर्हि प्राणान्तेऽपि न ददामि, परन्तु भवदीयं वचनं मया न निषिध्यते । युष्मदीयं कार्यमकृत्वा न मे सिद्धिः । भूपते ! किंबहुजन्पनेन ! इदं गृहादिकमपि सर्वं भवदीयमेव विभाव्यताम् । यतः - निगद्यते पञ्चमलोकपालो - घराधिपोधः प्रथितप्रभावः । किमस्त्यदेयं भुवि वस्तु तस्य सर्वस्य भोक्ता नरनाथ एव ॥ १ ॥ भवान् सुखेन स्वमन्दिरं प्रयातु, अधुनैवतान्यचान्भवदन्तिके प्रेषयिष्यामि । यतस्ते चत्वारः सन्ति, अतस्तान्पृथक् पृथक् मञ्जूषागतान्विधाय भवन्तं प्राभृतीकरिष्यामि । ततस्त्वया महतोत्सवेन सभामध्ये ता मञ्जूषा उद्धाट्य ते यच्चा बहिर्निष्कासनीयाः । इत्यजितसेनवचनेन प्रमुदितस्वान्तो नृपतिः सपरिवारः स्वनिकेतनमियाय । ततोऽजितसेनः प्रगुणीकृताश्चतस्रः पेटाः समानाय्य तासु तान्प्रधानान्पृथक् पृथक् प्रपूर्य भृत्यैरुद्वाह्य ता राजसदसिप्राहिणोत् । राजपर्षदि सिंहासनोपविष्टो यदि चोत्कण्ठितमानसो भूपतिर्बहून्सभ्य : जनान्मेलयित्वा महताडम्बरेण ता मञ्जूषा उद्घाटयतिस्म । ताम्योविनिर्गताश्चत्वारो मन्त्रिणो विकृतवेषा वैताला इव
For Private And Personal Use Only
•++++++++++*७
Acharya Shri Kassagarsun Gyanmandir
चतुर्थः
प्रस्तावः ।
॥ ९९ ॥