________________
ShriMahiavir JanArachanaKendra
Acharya:shkailassagarsunGyanmandir
निर्निमेषनयना मनाग्भयविस्मयाविष्टचेष्टा भूपतिं प्रेमदृया विलोकयामासुः । भूपतिरपि विस्मयमापनस्तानवृप्तलोचनाभ्यां निरीचतेस्म । चञ्चलाङ्गान्मानवसदृशास्तान्विलोकमानो मानवपतिः कौतुकेनोलसितस्तानुवाच-यूयं केस्थ ? कुतोऽत्र समागताः! शीलवतीभयेन बीडयाचाधोमुखास्ते तुणींतस्थुः । ततश्चिरं वीचमाणः उमापतिस्तानुपलक्षितवान् । रे ! इमेतुमदीया मन्त्रिणः सन्ति, इति विज्ञाय विस्मितमानसो व्रीडा विषादं च दधानो महीपतिः प्रीत्यातानपृच्छत्-किमिदं वैपरीत्यं जातम् ? अपात्रस्तमानसा अपि ते यथातथं स्वकीयं सर्ववृत्तान्तं मेदिनीपं समाचख्युः । पुनस्ते प्रोचुः-राजन् यः । कश्चित्क्षुद्रमतिः सहस्ररश्मि विच्छायं विधातुकामः पवनाभिमुखं स्थित्वाधूलि प्रक्षिपति, सा तिग्मांशुमस्पृष्ट्वा तस्यैवनयनयोः प्रशाम्यति । तथैव वयंशीलवत्याः शीलधनमपहर्नु जग्मिवांसः, परं सात्वक्षतशीलैव तिष्ठति, वयमेव लुण्टिताः सन्त ईदृशीमवस्थामनुभवामः । इत्यभिधाय चत्वारस्ते मन्त्रिणः शीलवत्याः शीलमहिमानममानं प्रशशंसुः। येन तस्याः सुसतीत्वं सर्वत्र पप्रथे । सकलजनश्लाघनीयशीला सा समजनि जनसमाजे । किश्वास्मिन्विष्टपे नैतादृशः कश्चित्पुमान्विद्यते, यः शीलवत्या शीलं प्रशंसितुं विरमेत् ? यतः कायिकशीलपालनाद्वाचिकशीलरचणमतिदुःसहंविद्यते, तस्मादपि मानसिक शीलपालनं सर्वथा दुःसहतमंप्रतीयते । तथाऽप्यस्या शीलवत्याः शीलन्तु त्रिधाशुद्धतरमेव विभाति । भो भव्याः १ शीलवतीनां शीलपालनमतिदुष्करविद्यते । दीक्षितस्य परीक्षणं परिषहोदयसमये भवति, सुवर्णपरीक्षा च.धनञ्जयभवति । तथैव शीलवत्याःशीलं परीक्षितुं चितिपतिना निजमन्त्रिणः प्रहितास्तेन सा सकलसभायां भूरिप्रशंसास्पदंजज्ञे । ततो भूपतिर्मन्त्रि चतुष्टयसमन्वितः शीलरत्नधनांशीलवती सविनयनमस्कृत्य शीलप्रभावश्लाघमानः निजापराधं क्षमयामास । ततः शील
For Private And Personlige Only