________________
प्रस्वाकः
भी अजितसेन शीलवती परितम् । ॥१०॥
वत्यपि तेभ्योमन्त्रिभ्योलचमितं धनंप्रत्ययंपुनस्तान्विविधवचनैः प्रतिबोध्यपरदारगमनमत्याजयत् । महो ? विलोक्यताम् ? सतीनामपूर्व-पन्थाः केनप्रथितः ? एवंतत्प्रशंसांकुर्वन्तः सर्वेसभ्यजनाः स्वस्वसदनमासेदुः । सर्वेन्द्रियार्थैरजितोऽजितसेनोऽपि निजभार्यासमेतोनिजालयमियाय । प्रशान्तवृत्तिः स प्रत्यहं ज्ञानदर्शनसमाराधनासहितं प्रभुपूजनं प्रशस्तस्तुतिभावनादिकञ्चसमाचरनिजजन्म सफलयामास । ततोन्यदा चिरन्तनातनुपुण्यप्राग्भारेणसमाकृष्ट इवविहरन् , तीव्रतरविशुद्धमहाव्रतधारका सप्तदशभेदात्मकसंयमसमाराधको द्वादशधातपश्चर्योपासकस्त्यक्तकनककामिनीसङ्गो दृढतरवैराग्यवासनः परित्यक्तविद्यमानामानसम्पद्गणः सम्यग्विजितक्रोधरयोनिर्मानलोभमायो विज्ञातभावो दमघोषनामामुनिस्तत्रोपवने समवासात् । वनपाल: प्रमोदपूरितोराजानमभ्येत्य विहिताञ्जलिपुटःसविनयं मुनेरागमनंन्यवेदयत् । तच्छुत्वा परमानन्दमादधानो, वसुधाधवस्तस्मै | वनपालाय दलितदारिश्चं तुष्टिदानमयच्छत् । ततः पौरजनपरिवारितः सपरिवारोनिर्जितवैरिवारो वारिधिवसनाधिपो निजविभवानुसारेण मुनीश्वरवन्दितुंनिरगात् । धर्मरुचिरुचितावसरबोजितसेनोऽपि निजपत्नीसनाथस्तं मुनिनार्थ प्रणन्तुंप्रतस्थे । वर्मनिमहता महेनव्रजन्तः सर्वे किश्चिदूरतः पादचारिणो भूत्वा तत्र गत्वा विशुद्धमावेन विगतवेदनं गुरुमभिवन्द्य यथोचितस्थानेषुनिषेदुः । ततो गुरुणाधर्मलाभाशिषं वितीर्यक्लिष्टकारिघातिनी धर्मदेशना पारेभे । भो भव्याः ?-दुःखाङ्गारकतीबे, संसारेऽस्मिन्महानसेगहने । निपतन्तं चिचोतं, विषयामृतलालसं निवारयत ॥१॥ अयमविचारितचारु-तयासंसारोभाति रमणीयः । अत्रपुनःपरमार्थ-दृशानकिमपि सारमणीयः ।। २ ॥ किञ्च-कचिद्विद्वद्गोष्ठी, कचिदपि सुरामत्तकलहः, कचिद्वीणावादः, क्वचिदपि च हाहेतिरुदितम् । कचिदम्यारामा, कचिदपिजराजर्जरतनु-नजानेसंसारः, किममृतमयः किं विषमयः ॥३॥
॥१०॥
For
And Persone
ly