________________
ShriMahavir JanArchanaKendra
Acharyah
sagan Gyaan
समेतोऽहं तत्र गत्वा किं करोमि ? रसवती परिमितास्याच्चेदुभयोरुपहास्यं भवेत् । इति विचार्य भूपतिना निजपार्थानुचरस्तत्र रसवत्यवेक्षणार्थ प्रहितः । गृहीताज्ञः सदूतोऽजितसेनगृहं गत्वा परितोवीक्ष्य पुनर्नृपान्तिकमागत्य दीर्घस्वरेण प्रोवाचस्वामिन् ! तद्वेश्मनि रसवत्याः समारम्भः कोऽपि न विद्यते, धृमदर्शनमपि तत्र न जायतेऽन्यस्थतुकावार्चा ? इति दूतवचनं निशम्य विस्मितो भूपतिश्चिन्तयितुं लग्न, अहो ! किमयं दतो वदति ? मां निमन्त्र्य निश्चिन्तः स कथं स्थितः ! भोजनावसरस्तुसाम्प्रतं भविष्यति, स भूरिपरिजनसमेतं मां किं भोजयिष्यति ? अस्तु किमेतचिन्तयामेभोक्तुकामस्य ! । इतः शीलवती महातपस्विन इवास्थिचविशेषांस्तान्प्रधानानब्रवीत्-यदिमदुक्तं वचनं यूयं स्वीकुरुत, तदाऽस्मात्कृपाद्वो बहिनिकासयामि । पहिरागत्य कदाचिदन्यथा प्रवृत्ति करिष्यथ तदास्मिन्कूपे युष्मान् पुनर्निक्षेप्स्यामि । तस्मिन्नवसरे स्वप्राणरिरक्षवस्ते शीलवतीवचनंमेनिरे । ततः सा कूपात्तानुध्धृत्य वारिणा संस्नाप्य रक्तचन्दनेन विलिप्ताङ्गान्यक्षानिवगृहाभ्यन्तरे रहसि स्थापयामास । पुनस्तान्प्रति सा जगौ-भो मन्त्रिणः ! यद्यद्वस्त्वहं कथयामि तत्तत्समानीय युष्माभिर्मह्यं देयं परं निनिमेषनयनैर्भवद्भिर्भाव्यम् । नोचेत्पुनस्तस्मिन्नेवकूपे भवतां निवासो भविष्यति । इत्थं तान्कथयित्वा गृहाभ्यन्तरे प्रच्छबतया विविधपकानादिपदार्थान्प्रगुणीकृत्य प्रभृतभक्ष्यभोज्यादिभिः स्थालान्संभृत्य यक्षानुकारिणस्तांतत्र स्थापयित्वा शीलवतीप्रेरितोऽजितसेना प्रमुदितो नृपाहानकृते तद्भवनं जगाम । तदानीमजितसेननिकेतनं नृपतिः सपरिवार: प्रययौ । | तस्मिन्समये स्नानजलादिका सकलां सामग्री समानीय यथावसरं यक्षरूपा मन्त्रिणो वितरन्ति । यथेष्टं भुञ्जानोभूजानिः
खचेतसि व्यचिन्तयत्-इदं सर्व भोजनादिकं भव्यं वस्तु गृहमध्यात्केचन यक्षाः समानीय ददति, परन्तु तमोज्याप्त्या किञ्चि
For Private And Personlige Only