Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 233
________________ ShriMaharveJain Aradhanekendra www.kobabirth.org Achnatha n Gym | यः पादेनमा प्रहरति स कीदृशं दण्डमईति ? तत्त्वार्थमजानानास्ते प्राहुः देव ! अन्यत् किं ? तस्य शारीरिकोदण्डो विधेयः, ततोनृपेणाऽजितसेनः पृष्टः, तदातेन प्रोक्तं देव ! विचार्य प्रत्युत्तरं दास्यामि, अथ गृहंगत्वा तेन शीलवती तबृतान्तं पृष्टा, चतुर्विधबुद्धिप्रवीणा शीलवती विचिन्त्य कथयामास, भतेः पादप्रहारकमेहान्सत्कारो विधातव्यः, तदा तेन सा पृष्टा, प्रहर्तुः सत्कारः कथं युज्यते, सा जगौ-भार्या विनानृपतिपादेन प्रहरामीति संकल्पमपि कर्तुमन्यस्याधिकारो नास्ति, तर्हि प्रहारस्य का वार्ता ? ततोऽजितसेनो राजसभायामागत्य पूर्वोक्तवृत्तान्तं राज्ञेनिवेदितवान्, तनिशम्य नृपतिः सन्तोषमवाप्यतं सर्वमन्त्रिषु मुख्यमन्त्रिणं चकार, ततः कस्मिंश्चित् समये सिंहरथनामा सिमान्तनृपतिररिमईनभूपमभिषेणयितुं निर्गतः । तदानीं बजता मत्तगजानां मदवारिवृष्ट्यामहीतलं सिञ्चन् , तरलगतीनां वाजीनां खुराधातैरुद्धतरजो मेघपटलेन गगनाङ्गणं पूरयन् , प्रचलद्रथानां धवलध्वजपताकाबलाकाश्रेण्या शोभमानः, तूर्याणां गभीरनादगर्जारवेण ब्रह्माण्डभाण्डोदरं जीर्णयन् अरिमर्दनभूपोऽपि नूतनोजलधरसमय इव सिंहस्थनृपमभिययौ, तस्मिन् समये शीलवती निजभर्तार सचिन्तं विलोक्य चिन्ताकारणमपृच्छत् । अजितसेनेन कथितम्-नृपतिना साधेमहं गच्छामि, त्वां गृहीत्वा यदि ब्रजामि तर्हि मदीयगृहं शून्यं जायते, किचत्वमखण्डितशीलाविद्यसे, तथापि त्वामेकाकिनी गृहेविमुच्य ब्रजतो मेमनोऽसन्तुष्टं जायते, तस्मादहं चिन्तातुरोजातः, इति निशम्य शीलवती प्रोवाच, प्राणेश ? अग्निः शीतलता प्रयाति रविरप्याशां कुबेराश्रिता, प्रत्युद्योतयते सुमेरुरचलः कापि प्रकम्पं भजेत् । भूपीठं च नभस्तलं मरुदपि स्थैर्य भजेदर्णवो,-मर्यादां त्यजति क्षमं तदपि नो सत्या विभत व्रतम् ॥ १॥ For Private And Personale Only

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244