Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Acharya Shri Kasagaran Gyaan W
चतुः प्रस्ताव
अजितसेन शीलवतीपरितम् ।
वैरिवारा॥ १ ॥ मचितारन्ता, यतथोक्तम
॥
८॥
स्तेषां व्यतीयुः । तदानीं जीवमात्रशेषास्ते तस्थुः । अहो ! विषयतृष्णा दुरन्ता, यतश्वोक्तम्-विषस्य विषयाणांहि, दृश्यते महदन्तरम् । उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥१॥ भक्षितेनविषेणैव, हरकण्ठस्थनीलता । चक्रे जडू तदर्भाङ्ग, विषयैस्तु मनोगतैः ॥ २ ॥ इतोरिमईनभूपतिर्वैरिवारान्विजित्य निजाज्ञानुवर्जिनस्ताविधाय तेभ्यः सारवस्तूनि स्वीकृत्याजितसेनसमेतः सपरिवारः स्वनगरमियाय । स्ववेश्मनि समायान्तमजितसेनं निरीक्ष्य शीलवती प्रगुणितप्रमोदा यथोचितं सत्कारंविधाय सुस्वादुरसवतीं स्वयंनिष्पाद्य तंभोजयामास, स्वयश्चबुभुजे । ततः कुशलवारों कुर्वन्तीशीलवती मन्त्रिणा दुश्चरित्रं यथावृत्तंसकलं निजस्वामिने कथयामास । ततोऽजितसेनेनापि निजवृत्तान्तं तदनिवेदितम् । मिथःस्नेहनिबद्धमानसानामुत्तमजनानामियं प्रकृतिर्यन्मिथःसंगमे स्वस्ववृत्तान्तं विनिवेद्यनिवृत्तिपरायणाभवन्ति । इतोऽरिमईनभूपेनाऽपि निजप्रहितप्रधानचतुष्टयस्यान्वेषणकारितं तथाऽपि तेषांप्राप्तिः कापिनजाता । अथान्यदातदेवचिन्तयतानृपेण राजसभागतोऽजितसेनः सोपहासमभाणि-भो ? भवतः सबनि भोजनार्थमपि मां किं न नयसि ? अजितसेनस्तदेव नृपतिवचनं चिन्तयनिजगृहं समेत्य शीलवत्यैतद्वत्तान्तं न्यवेदयत् । सा प्रोवाच-स्वामिन् ? भवान् तत्रगच्छतु, भोजनार्थे नरपतिं सुखेनाऽत्रसमानय, यतोऽस्मिन्कृपे विषयफलमनुभवतइमान्मन्त्रिणस्तंदर्शयामि । इत्थं शीलवतीवचनं निशम्य सद्यो जितसेनो नृपमन्दिरं समागत्य भोजनार्थ महताग्रहेण भूपति न्यमन्त्रयत् । भूपतिः स्वचेतसि मोदमानो व्यचिन्तयत्-अद्य खलु प्रधानचतुष्टयस्य शुद्धिर्मयालप्स्यते, अजितसेनेन भोजननिमन्त्रणं प्रदत्तमतस्तद्गृहे मया गन्तव्यम् । परंत्वन्यपरिवारः कियास्तत्रनेतव्यः ! यदि स्वन्पपरिवारं गृहीत्वा ब्रजामि तर्हि मम लघुतास्यात्, बृहत्परिजन
॥४८॥
For Private And Personale Only

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244