Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
भी भवितसेन शीलवती -
॥१०७॥
*****
www.kobatirth.org
विद्रुमाऽवरा दीव्यरत्नलोचना, रजतसमाननितंबविम्बा, सुवर्णसमानसर्वाङ्गी मदनराजनिधानस्य जङ्गमा मञ्जूषेवसा बमौ, तां विलोक्य श्रेष्ठिनमपृच्छम् । इयं कन्या कस्यास्ति ? श्रेष्ठिना कथितं भद्र १ इयं ममपुत्री मूर्त्तिमतीचिन्ताऽस्ति. किलट्ठे लहिहीवरं पिययमं किं तस्ससंपजिही, किं लोयं ससुरा इयं नियगुणग्गामेणरंजिस्सए ।
किं सीलं परिपालिही पसविही किं पुत्तमेवं धुवं, चिंतामुत्तिमई पिऊणभवणे संवट्टए कन्नगा ॥ १ ॥
किश्चेयं कन्या स्वशरीरसौन्दर्येण देवाङ्गनानां दर्प दलयति, अनेकगुणैर्विभूषिता, हिताऽहितपण्डिता, सदाचार विचारेषु श्लाघनीया चाsस्ति, तस्माच्छीलवत्यभिधानं तस्या अस्ति, आवान्यादेव सा प्राक्तनसुकृतोदयेन सखीनामिव शकुनादीनां भाषासु प्रवीणाऽस्ति तस्या योग्यवराऽलामे महती चिन्ता जाता, तस्मादियं साचाच्चिन्तेति मया कथितम् ' एवं शृण्वता मया तस्मै कथितं श्रेष्ठिन् ? संतापं माकुरु ? नन्दनपुरवास्तव्यस्य रत्नाकर श्रेष्ठिनोऽजितसेननामा तु विशिष्टरूपादिगुणसंपन्नोऽस्ति तवपुत्र्या वरः सएवोचितोऽस्ति तदा जिनदत्तेनाभाणि-भद्र ? महाचिन्तासागर निमग्नोऽहमनुकूल वरोपदेशप्रवहणेन त्वया समुष्धृतोऽस्मि, एवमभिधाय तेनाऽजितसेनाय शीलवतीं दातुं मयासह निज पुत्रो जिनशेखरः प्रेषितः, सचाऽत्रसमागत्योपविष्टोऽस्ति इदानीं भवते यद्रोचते तद्विधीयताम्, इत्याकर्ण्य मोदमानेन रत्नाकर श्रेष्ठिना त्वयैतच्छोभनं विहितमित्याख्याय जिनशेखरः समाहूतः, तेनाऽपि सादरं निजभगिनीं शीलवतीम
२ किं श्रेष्ठ लप्स्यते वरो प्रियतमः किं तस्याःसंपत्स्यते, किं लोकं श्वसुरादिकं निजगुणग्रामेण रक्षिप्यते । किं शीलं परिपास्यति प्रसविष्यते किं पुत्रमेवं ध्रुवं चिन्तामूर्तिमती पितुर्हि भवने संवर्त्तते कन्यका ॥ १ ॥
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
कथासारः
॥१०७॥

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244