Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 215
________________ कृच्छ्रेणामध्यमध्ये नियमिततनुभिः स्थीयते गर्भगर्ते, कान्ताविश्लेषदुःखव्यतिकरविषमेयौवने विप्रयोगः । नारीणामप्यवज्ञा विलसति नियतवृद्धभावोऽप्यसाधुः, संसारे रे मनुष्याः ? वदत यदि मुखं स्तोकमप्यस्ति किश्चित् ॥ ४ ॥ तस्मात् संसार विषवृक्षस्य, द्वे फलेखमृतोपमे । शास्त्रामृतरसावादः, सङ्गमः सज्जनः सह ॥ ५॥ अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् । कृतकर्मचयोनास्ति, कोटिजन्मशतैरपि ॥ ६॥ पत्रनैव यदाकरीरविटपेदोषो वसन्तस्य किं, नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् । धारा नैवपतन्ति चातकमुखे मेघस्य किं दूषणं, यापूर्वार्जितशर्मदुःखविभवः सैवोपभोग्योजनैः॥७॥ कर्मणाबाध्यते बुद्धि-र्नबुझ्या कर्मबाध्यते । सुबुद्धिरपि यद्रामो-हैमहरिणमन्वगात् ॥ ८॥ अवश्यं भाविनो भावा-भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य, महादिशयनं हरेः ॥९॥ कर्मणा जायते दुःखं, कर्मणोत्पद्यते सुखम् । सुखदुःखनिपाते हि, कर्म कारणमुच्यते ॥ १० ॥ धनानि भूमौ पशवश्वगोष्ठे, भार्या गृहद्वारि जनाःस्मशाने । देहश्चितायां परलोकमार्गे, धर्मानुगो गच्छति जीव एकः ॥११॥ किश्चज्ञानदाने विशेषतो यतितव्यम् । यता-अपूर्वः कोऽपि कोशोऽयं, विद्यते ज्ञान ! तेऽनप ? । व्ययतो वृद्धिमायाति, चयमायाति संचयात् ॥ १२ ॥ अनेकसंशयोच्छेदि, परोचार्थस्य दर्शकम् । सर्वस्यलोचनं ज्ञानं, यस्यनास्त्यन्ध एवसः ॥१३॥ हर्जुन गोचरंयाति, दत्तं भवति चाचयम् । कम्पान्तेऽपि न याश्य-किमन्यज्ज्ञानसंमितम् ॥१४॥ कान्पच्छामः सुराः खर्गे, निवसामोवयंभुवि । किंवा ज्ञानरसः स्वादः, किंवा स्वादीयसी सुधा ।। १५॥ दर्शनेन समं नास्ति, त्रिलोक्या सुखदायकम् । तस्मात्तदेतद्विज्ञाय, यतितव्यं सदाबुधैः ॥ १६ ॥ दर्शनं ज्ञानमूलं हि, धर्ममूलं चदर्शनम् । वैराग्यभावनाहेतु-स्तदेवाहुर्जिनेश्वराः ॥ १७॥ नास्तिशाखसमं लोके, शिवदंजन्मिनां पुनः। अपरं साधनं तस्मा-त्तदेवाचं समा For And Persone ly

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244