Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 224
________________ ShriMahavir JanArchanaKendra Achahn sagan Gyaan प्रशस्ति ॥१०॥ यो धर्म शिथिलं निवार्य विधिना सत्यात्मकं चक्रिवान्, धर्मोद्योतकरी क्रियाश्च विशदां संदर्शयामासिवान् ॥२३॥ योग्याहारविहारकर्मकुशलो योध्याननिष्ठक्रियः, सारासारविशेषवेदनपटुः शुद्धात्मधर्मप्रियः। सार्वज्ञप्रथिताध्वबोधनरतिनिर्मिनविघ्नावलिः, संघानां समतालयः समभवद्भव्यप्रभावाश्चितः ॥ २४ ॥ तत्पट्टामरशैलसानुविलसलक्ष्मीः क्षमासेवधिः, सुज्ञानः सुखसागरो मुनिवरो जज्ञे कृपासागरः। यत्पादाम्बुजसेवनेन सकला संपत्तयो देहिनां, हस्ताब्जोदरसंगताः समभवंश्चिन्तातिगाः सर्वदा ॥ २५ ॥ योनिर्वाणरमाप्रियः पृथुमतिः पञ्चप्रमादोमिता, प्रत्यक्षीकृतदेवतत्त्वमहिमा भूयस्तपःसन्ततिः। कन्याणाकलितस्वभावविभवः शुद्धक्रियादेशको-दिक्चकं विशदीचकार विशदैश्चारित्रचन्द्रांशुभिः ॥ २६ ॥ तत्पढाचलचक्रवर्तितरणिः कारुण्यसिद्धापणः, सर्वस्वार्पणनिःस्पृहः श्रितवतां सत्यश्रिया भूषितः । शान्ताकारतयाऽधरीकृतधरादेशो गिरा वाक्पतिः, मूरिः श्रीमद्बुद्धिसागरगुरूरेजे जगद्दीपकः ॥ २७॥ यः सर्वागमशास्त्रवारिधितलस्पर्शकदचक्षणः, चीण विष्टविशिष्टकर्मनिवहः सर्वार्थविद्विश्रुतः । ग्रन्थाकविधान्विचाररुचिराँनोकोपकारचमान्, चक्रे भूरिभवार्त्तिनाशनपरो माधुर्यवारांनिधीन् ॥ २८ ॥ यत्पादाम्बुजसेविनो विनयिनः शिष्यप्रशिष्यव्रजा-प्राजन्ते श्रुतधारकाः कृतधियो धर्माध्वनि प्रोद्धताः। गाम्भीर्यादिगुणालयाः सुचरितैः संरचितप्राणिनः, संरुद्वाश्रवपापकर्मगतयो भूपीठसंपावकाः ॥ २६ ॥ तत्पट्टप्रथुसंपदाश्रितवपुर्भास्वत्प्रभामासुरः, सूरीशोऽनितसागरः शुचिमतिः सिद्धान्तसारोदधिः । ॥१०॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244