Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir JanArchanaKendra
Achahn
sagan Gyaan
निजस्वामिनोऽन्तिकेगत्वा साध्वीगदितः शीलवतादिमहिमा न्यवेदि । पुनः सा प्रोवाच-स्वामिन् ? मया साध्व्याः समचं शीलवतं गृहीतमस्ति, तच्छृत्वा सरलस्वभावः प्रमुदितमानसोदुर्गोऽपि निजपत्नीवच्छीलव्रतमङ्गीचक्रे । तदारभ्य शीलव्रतप्रभावेणसोऽपि लब्धसम्यक्त्वगुणोजनि । यथैकस्माद्दीपादपर प्रदीप प्रकाश्यते, तद्वदत्रापि सञ्जातम् । ततोधिकाधिकधर्मरुचिः सभार्योदुर्गो ज्ञानपञ्चमीदिवसे ज्ञानपूजां कर्तुं लग्नः, शीलवतं च पालयतिस्म, यथाशक्ति तपश्चर्या विधे, शुभा भावनाच प्रत्यहंभावयतिस्म । एवं यथाविधिज्ञानधर्माराधनं विधाय स्वायुषः प्रान्ते कालं कृत्वा तावुभौ सौधर्मदेवलोकं प्रापतुः । तत्र च सर्वायुः परिभुज्य ततश्युत्वाऽस्मिन्भवे दुर्गजीवस्त्वमजितसेनकुमारोजातोऽसि, दुर्गाजीवश्चत्वदीयमार्याऽसौशीलवतीजाता । यतस्तयास्त्रिया पूर्वस्मिन्भवे भावतोभृशं ज्ञानसमाराधनं चक्रे, तस्मादस्मिन्भवेऽनया शुद्धमतिज्ञानं प्राप्य पूर्वभवाम्यासवशेन विशुद्धशीलं समाराधितम् । निजभार्यावचनेनत्वयाऽपि धर्माराधनं चक्रे, तत्प्रभावेणैवाऽस्मिञ्जन्मनि प्रभूता लक्ष्मीस्तव संप्राप्ता, सर्वत्रलोके प्रतिष्ठा च सञ्जाता, राज्यादिषुमाननीयस्त्वमभूरिति सविस्तरं पूर्वजन्मवृत्तान्तं दमितेन्द्रिय दमघोषमुनिमुखात्समाकर्ण्य तदनुचिन्तयतोस्तयोर्दम्पत्योर्जातिस्मरणज्ञानमुत्पेदे । तेन ज्ञानेन तावुभौ गुरुणा यदुक्तं तत्सत्यमेवाऽस्तीतिविविदतुः । ततस्तौ ज्ञानिगुरुं प्रोचतु:-मुनीन्द्र ? ज्ञानवलेन भवता यदवोचि, तत्सर्व भवत्कृपयावाभ्यां ज्ञानचक्षुषा साक्षायलोकि । तदागुरुणाऽवादि-महाभाग? पूर्वस्मिन्मवे गृहस्थ-श्राद्धधर्म पालयतात्वया शीलवतप्रमावेणैतावत्फलमुपार्जितमस्ति । परन्त्वधुना कारागारसमं संसारवासंपरित्यज्य शुद्धसाधुधर्म स्वीकृत्य सर्वोत्तमं ब्रह्मचर्यव्रतं मनःकायवचनैर्निर्मलं प्रसाध्याष्टादशसहस्रदोषविरहितं चारित्रं यद्यङ्गीकरोषि तर्हि पुनर्जननीगर्भगमनमनेकधा संसारदुःखवेदना
For Private And Personlige Only

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244