Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 213
________________ ShriMahiavir JanArachanaKendra Acharya:shkailassagarsunGyanmandir निर्निमेषनयना मनाग्भयविस्मयाविष्टचेष्टा भूपतिं प्रेमदृया विलोकयामासुः । भूपतिरपि विस्मयमापनस्तानवृप्तलोचनाभ्यां निरीचतेस्म । चञ्चलाङ्गान्मानवसदृशास्तान्विलोकमानो मानवपतिः कौतुकेनोलसितस्तानुवाच-यूयं केस्थ ? कुतोऽत्र समागताः! शीलवतीभयेन बीडयाचाधोमुखास्ते तुणींतस्थुः । ततश्चिरं वीचमाणः उमापतिस्तानुपलक्षितवान् । रे ! इमेतुमदीया मन्त्रिणः सन्ति, इति विज्ञाय विस्मितमानसो व्रीडा विषादं च दधानो महीपतिः प्रीत्यातानपृच्छत्-किमिदं वैपरीत्यं जातम् ? अपात्रस्तमानसा अपि ते यथातथं स्वकीयं सर्ववृत्तान्तं मेदिनीपं समाचख्युः । पुनस्ते प्रोचुः-राजन् यः । कश्चित्क्षुद्रमतिः सहस्ररश्मि विच्छायं विधातुकामः पवनाभिमुखं स्थित्वाधूलि प्रक्षिपति, सा तिग्मांशुमस्पृष्ट्वा तस्यैवनयनयोः प्रशाम्यति । तथैव वयंशीलवत्याः शीलधनमपहर्नु जग्मिवांसः, परं सात्वक्षतशीलैव तिष्ठति, वयमेव लुण्टिताः सन्त ईदृशीमवस्थामनुभवामः । इत्यभिधाय चत्वारस्ते मन्त्रिणः शीलवत्याः शीलमहिमानममानं प्रशशंसुः। येन तस्याः सुसतीत्वं सर्वत्र पप्रथे । सकलजनश्लाघनीयशीला सा समजनि जनसमाजे । किश्वास्मिन्विष्टपे नैतादृशः कश्चित्पुमान्विद्यते, यः शीलवत्या शीलं प्रशंसितुं विरमेत् ? यतः कायिकशीलपालनाद्वाचिकशीलरचणमतिदुःसहंविद्यते, तस्मादपि मानसिक शीलपालनं सर्वथा दुःसहतमंप्रतीयते । तथाऽप्यस्या शीलवत्याः शीलन्तु त्रिधाशुद्धतरमेव विभाति । भो भव्याः १ शीलवतीनां शीलपालनमतिदुष्करविद्यते । दीक्षितस्य परीक्षणं परिषहोदयसमये भवति, सुवर्णपरीक्षा च.धनञ्जयभवति । तथैव शीलवत्याःशीलं परीक्षितुं चितिपतिना निजमन्त्रिणः प्रहितास्तेन सा सकलसभायां भूरिप्रशंसास्पदंजज्ञे । ततो भूपतिर्मन्त्रि चतुष्टयसमन्वितः शीलरत्नधनांशीलवती सविनयनमस्कृत्य शीलप्रभावश्लाघमानः निजापराधं क्षमयामास । ततः शील For Private And Personlige Only

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244