Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 195
________________ Achnashtags Gyarmande | ततो भानुसिंहो निजाभीष्टां वार्ता वक्तुं प्रारभत-सकलसमृद्धिनिदानमानन्दपुराभिधं यथार्थसंझं पत्तनमस्ति, तस्मिन्मणि चन्द्रनामा जनमान्यएकोविद्वान् वसतितस्यसर्वगुणसंपन्नः सकलकलाकलितो राज्यकार्यविधाने निपुणमतिः सर्वजनसबुद्धिप्रदायको लोकप्रियः सतां सदामान्यो मणिसेनाभिधेयः पुत्रो वर्त्तते । प्राप्तसद्गुणः सर्वजनोपकारकः सद्वृत्तः स मणिसेनो निजगृहमागत्य स्वमातापित्रोरणे स्वपराक्रमस्य वार्ता यदा निष्कासयति तदा तत्पिता तदसहमान इव सहसा तद्वार्ता| बोटयित्वा तिरस्कारवचनस्तं भर्त्सयति । प्रतिक्षणञ्चतं कथयति-अद्याऽपित्वं किश्चिनजानासि, बुद्धिलेशोऽपि त्वयि न विद्यते, मूर्खशिरोमणिरेवत्वमसि, ईदृशानि निन्द्यवचनानि प्रयुञ्जानस्तजनकस्तस्यपत्न्यां शृण्वन्त्यां तजीवितं कपर्दिकोपमं करोति । तथापि मौनं सर्वार्थसाधकमिति विचिन्त्य मणिसेनो जनकोक्तं सर्व सहमानो निरुपद्रवस्तिष्ठति । परन्तु तदसा दुःखं कियत्कालं सोऽपि सहते ? ततोऽन्यदा खपत्न्यां संस्थितायां मणिसेनस्तत्पित्रा परुषवाक्यैर्भृशं तिरस्कृतस्तस्माद्भूरिक्रोधेन तप्यमानो मणिसेनो निजपितुर्मारणस्य निश्चयं कृतवान् । ततो निशायां तत्पिता महानसेमोक्तुमुपविष्टस्तदानीं मणिसेनः समीपवर्जिनः कस्यचित्क्षत्रियस्य गृहात्खनं समानीय गुप्तवृत्त्या महानसद्वारस्य पृष्ठभागेनिलीय खमनसीत्थं विचारयति-भुक्त्वाऽसौ मुखप्रक्षालनार्थ यावद्वहिनिःसरति तावदनेन खड्गन तस्य शिरश्छेदं करोमि । तथाकृते शीतवारिणा पामा विनंत्यति । इत्थं विचिन्तयति तसिन्वारिरिक्तं कलशं दृष्ट्वा भोजनं कुर्वाणस्तत्पिता स्वभार्या प्रतिजलमयाचत । तद्भार्या जलं ददती निजपतिं प्रति कथयति-स्वामिन् ! अस्मदीयः पुत्रो गुणगणालंकृतो राजमान्यः सर्वत्र लब्ध। प्रतिष्ठो विद्यते. तस्य तिरस्कारं तत्पत्नीसमचं प्रत्यहं त्वं करोषि तद्योग्यं न जायते । अयं पुत्रो महाक्षमावान् वर्त्तते, For Private And Personale Only

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244