Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 199
________________ ShriMahisvir JanArachanaKendra Acantha n Gym I पप्रच्छ-तदासोऽवदत्-वामनयने ! त्वं प्रातर्ममान्तिकमागच्छेः, परेवुरावयोर्निजदेशे प्रयाणं भविष्यति नूनम् । इति निजस्वामिनोमुखाद्वचनं निशम्य ज्ञातप्रयाणावसरा सा गृहाभ्यन्तरे गत्वा शयनाधीना बभूव । प्रभाते समुत्थायस्नानादिका क्रियां नित्यविहितनित्यनियमो मणिसेनः स्वस्थीभूय लब्धावकाशः श्लोकमेकंलिलेख-म यथा-प्राप्तव्यमर्थ लभते मनुष्यः, शक्तो न तं नाशयितुं हि देवः । ततो न मे विस्मयशोचनाति-यत्स्वीयमेतत्र परस्यभावि१.१॥ इत्थं श्लोकाङ्कितं पत्रं निजभार्याहस्ते विमुच्य तामेवं स प्रोक्तवान्-इमं श्लोकं गृहीत्वा त्वं विपणीं व्रज, योहि सपादलचं धनं दद्यात्तस्मैनरायायं श्लोकस्त्वयाप्रदातव्यः । इति शिवयित्वा तद्विक्रयाय तां विपण्यांप्राहिणोत् । साऽपि स्वभर्तृनिदेशा श्लोकं गृहीत्वा राजवर्मन्येकस्मिन्स्थाने तस्थौ । इतस्तन्नगरवास्तव्यः कञ्चनसिंहनामा कोटीधनपतिरेको व्यवहारी बभूव, तस्य चत्वारः सुता आसन् , तेषाममीचन्द्राख्यो ज्येष्ठनन्दनोमहान्दक्षोऽभूत् । तस्य चैतादृशः स्वभावोऽभवत् , यः कश्चिन्नूतनं पदार्थ विक्रेतुं समागच्छति तस्य यथाभिलषितं धनं दत्वा तन्नवीनं वस्तुस्वयं गृह्णाति । अथ तत्रस्थितां श्लोकपत्रहस्तां तां स्त्रियंदृष्ट्वाऽमीचन्द्रस्तत्सन्निधौगत्वाऽपृच्छत्-प्रमदे ! त्वं किं विक्रेतुं संस्थिताऽसि ? तयाभामिन्या निजपतिनोदितं सर्व श्लोकवृत्तान्तं तदने निवेदितम् । तच्छ्रुत्वाऽमीचन्द्रो निजचेतसि विचारयति-यदसौ नारी श्लोकस्यैकस्य सपादलक्षं धनं मूल्यं वदति तत्सत्यमेव संभाव्यते । गृहीतोऽयं श्लोकः कस्मिन्नपि समये कार्यसाधको भविष्यति, वृथानैव भविष्यतीति निश्चयं विधाय तस्यै सपादलक्षं धनं दत्त्वा स श्लोकस्तेन गृहीतः । ततो धनसमेतां तां वियं तत्पितुर्ग्रह प्रेषीत् । साऽपि प्रमुदिता निजस्वामिनोऽन्तिके गत्वा सर्वमेतद्धनं स्थापयतिस्म । मणिसेनस्तद्धनराशि निरीक्ष्य निजश्वशुरं For Private And Personlige Only

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244