________________
ShriMahisvir JanArachanaKendra
Acantha n Gym
I पप्रच्छ-तदासोऽवदत्-वामनयने ! त्वं प्रातर्ममान्तिकमागच्छेः, परेवुरावयोर्निजदेशे प्रयाणं भविष्यति नूनम् । इति निजस्वामिनोमुखाद्वचनं निशम्य ज्ञातप्रयाणावसरा सा गृहाभ्यन्तरे गत्वा शयनाधीना बभूव । प्रभाते समुत्थायस्नानादिका क्रियां नित्यविहितनित्यनियमो मणिसेनः स्वस्थीभूय लब्धावकाशः श्लोकमेकंलिलेख-म यथा-प्राप्तव्यमर्थ लभते मनुष्यः, शक्तो न तं नाशयितुं हि देवः । ततो न मे विस्मयशोचनाति-यत्स्वीयमेतत्र परस्यभावि१.१॥ इत्थं श्लोकाङ्कितं पत्रं निजभार्याहस्ते विमुच्य तामेवं स प्रोक्तवान्-इमं श्लोकं गृहीत्वा त्वं विपणीं व्रज, योहि सपादलचं धनं दद्यात्तस्मैनरायायं श्लोकस्त्वयाप्रदातव्यः । इति शिवयित्वा तद्विक्रयाय तां विपण्यांप्राहिणोत् । साऽपि स्वभर्तृनिदेशा श्लोकं गृहीत्वा राजवर्मन्येकस्मिन्स्थाने तस्थौ । इतस्तन्नगरवास्तव्यः कञ्चनसिंहनामा कोटीधनपतिरेको व्यवहारी बभूव, तस्य चत्वारः सुता आसन् , तेषाममीचन्द्राख्यो ज्येष्ठनन्दनोमहान्दक्षोऽभूत् । तस्य चैतादृशः स्वभावोऽभवत् , यः कश्चिन्नूतनं पदार्थ विक्रेतुं समागच्छति तस्य यथाभिलषितं धनं दत्वा तन्नवीनं वस्तुस्वयं गृह्णाति । अथ तत्रस्थितां श्लोकपत्रहस्तां तां स्त्रियंदृष्ट्वाऽमीचन्द्रस्तत्सन्निधौगत्वाऽपृच्छत्-प्रमदे ! त्वं किं विक्रेतुं संस्थिताऽसि ? तयाभामिन्या निजपतिनोदितं सर्व श्लोकवृत्तान्तं तदने निवेदितम् । तच्छ्रुत्वाऽमीचन्द्रो निजचेतसि विचारयति-यदसौ नारी श्लोकस्यैकस्य सपादलक्षं धनं मूल्यं वदति तत्सत्यमेव संभाव्यते । गृहीतोऽयं श्लोकः कस्मिन्नपि समये कार्यसाधको भविष्यति, वृथानैव भविष्यतीति निश्चयं विधाय तस्यै सपादलक्षं धनं दत्त्वा स श्लोकस्तेन गृहीतः । ततो धनसमेतां तां वियं तत्पितुर्ग्रह प्रेषीत् । साऽपि प्रमुदिता निजस्वामिनोऽन्तिके गत्वा सर्वमेतद्धनं स्थापयतिस्म । मणिसेनस्तद्धनराशि निरीक्ष्य निजश्वशुरं
For Private And Personlige Only