________________
चतुर्थः
प्रस्ताव
अजितसेन शीलवतीचरितम्। ॥९३॥
समाहूय निजगाद-पूज्यपाद ! द्वादशमासान्यावयुष्मामिर्ममपरिचर्या प्रभूता विहिता, तस्मादियंसमृद्धिर्भवतास्वीक्रियताम् । मयश्च प्रयाणाशांदेहि, आगामिनिवासरे मे जिगमिषावर्चते । ततः श्वश्रुश्वशुरौ पारवेश्मिका अन्येऽपि जनाश्च जामातुर्महान्तं पराक्रम समवलोक्य विस्मयंप्रापुः । समार्यो महेभ्यस्तुपश्चाचापं कुर्वश्चिन्तयितुं लगः, द्वादशमासान्यावदसौ जामाता परोपजीवीव पराधीनतया जठरपिठरं रोट्टकखण्डैः पूरयतिस्म । पराक्रमशालिनमिमं तर्जयता मया महानपराधो विहितः । अद्यावधि काऽपि निपुणताऽस्य न दृष्टा, क्षणादयं धनराशिः कुतोऽनेनमेलितः किमेतज्जातम् ? कस्याप्यग्रे निजसत्ववृत्तान्तमनेन न प्रकटीकृतम् , इत्थंचिन्तयन्तः पौरजना अपि स्वस्वस्थानं जग्मुः । अथ प्रभाते मणिचन्द्रः समायः स्वदुहित्रे विविधानिवस्त्राभरणानिप्रदाय निजजामात्रेचा सकला सम्पत्ति वितीर्यस्वापराधं चमयित्वा शुभलग्नवेलायां पुत्रीजामातरौ | निजपुरं प्रेषयामास । एवं सभार्येण मणिसेनेन निजजनकाजैकवशंवदेनवर्षमेकं श्वशुरालये स्थित्वा मानसिकपितृहननदोषो निवारितः। इतस्तेनाऽमीचन्द्रेण सपादलचमून्य एकः श्लोको गृहीत इति विदित्वा तस्यत्रयोऽनुजाः परंविषादमवापुः, मिथस्ते प्रोचुः-इमाः सर्वाः सम्पत्तयोऽस्माकं सर्वेषां वर्तन्ते, नत्वेकाकिनो ज्येष्ठभ्रातुः । कथमनेनैकाकिनाऽस्मानपृष्ट्वामुधाधनहानिकरमिदं कार्य विहितम् ? अतोऽसौ ज्येष्ठबन्धुरचिरेणास्माभिचार्थिनः करिष्यति । तस्मात् केनापि कूटविधिना व्यापाद्य सर्व धनमस्माभिः स्वाधीनीकर्तव्यमितिमन्त्रयित्वा कतिचित्प्रवहणानि प्रगुणीकृत्यबहुविधैः क्रयाणकैर्भूत्वाचत्वारो भ्रातरो निजपितुराज्ञां समादायदेशान्तरंयियासवः प्रवरं प्रवहणं समारुह्याचेलुः। वर्मनिव्रजतां तेषां सप्तवासरा व्यतीयुः । ततोऽन्यस्मिन्दिनेवर्मन्येकोमहान्द्वीपः समागतः, तं च विलोक्य तत्रस्थितं जलादिकमाहर्तुं तत्र प्रवहणानिस्तम्भयित्वा चतुर्भिर्भूत्यैः सह
For PvAnd Personale Only