________________
Shri Mahavir Jain Aradhana Kendra
****•*••***«-**O*************•*
www.kobatirth.org
चत्वारो भ्रातर उडुपमेकं समारुह्य तटाभिमुखंप्रतस्थिरे । प्रथमतस्तद्भाहितसंकेता नाविकादयः क्रोशमात्रं दूरं तटं निरीच्यामीचन्द्रं दृष्टिवचनेन जलधौनिपात्य पुनर्व्याघुट्य पापात्मानस्ते सर्वे निजप्रवहणान्तिकमाययुः । जलादिकमपेचितंवस्तु संगृझ प्रमोदभाजस्तेत्रयोभ्रातरः प्रवहणस्थास्ततोऽग्रेप्रचेलुः ! इतोऽमीचन्द्रोवारिधौ पतितस्तस्मिन्दणे प्राक्तनपुण्यबलेन कस्यचिद्भग्नप्रवहणस्यैकंफलकंतस्यहस्तगतं बभूव । अहो ! यस्य प्रचुरं पुण्यमायुर्बलश्च जागर्त्ति तं नरंनिहन्तुं कः समर्थोभवेत् ? उक्तश्च वने रणे शत्रुजलाग्निमध्ये, महार्णवेपर्वतमस्तके च । सुप्तं प्रमत्तं विषमस्थितं वा रचन्ति पुण्यानि पुराकृतानि ॥ १ ॥ ततोऽमीचन्द्रस्तत्फलकमवलम्ब्य निर्विघ्नतया जलवितीर्त्वापरतटं प्राप । तत्र गतेनामीचन्द्रेण प्राचीनाभिधानं परित्यज्यमणिसेनपत्न्या प्रदत्तस्य श्लोकस्यनित्यमरणेन स्मृतिगोचरीभूतस्य प्रथमपदस्यानुसारेण प्राप्तव्य इत्यभिधानं प्रकटीचक्रे । ततस्तत्रदिनद्वयंस्थित्वा निकटवर्त्तिपादपानां फलैराहारं कुर्वाणः प्राप्तव्याभिधेयः स परिभ्रमन्किञ्चिदेकं महानगरमासाद्यतत्रगराधिपतेर्भृत्यत्वेन तत्रैवाऽस्थात् । भूपतिना निजपुत्र्याः संरक्षणार्थं योग्यतमं तं विज्ञाय तत्र स नियोजितः । भूषकन्या प्रत्यहं पाठशालायामध्येतुं प्रयाति, तयासार्द्धं सोऽपि तद्रक्षणार्थं प्रयाति, पुनरध्ययनान्ते तां समानीयराजमन्दिरे मुञ्चति । इत्थं प्रत्यहं राजशासनाधीनः प्राप्तव्यो निजकार्य विदधाति । अथ भूपकन्यायाः प्रधानन्यायविद्दुर्गपालानांतिसृभिः कन्याभिर्दृढतरा मैत्रीजज्ञे । सर्वदाऽध्ययने सहचारिण्यः सर्वकर्मस्वप्यभिन्नहृदयाश्च त्रस्ता अभूवन् । अन्येद्युस्ताः संमीन्यवार्त्तालापं कुर्वन्ति, तासांमध्येप्रधानपुत्री प्रस्तावमासाद्यवभाग- प्रियसख्यः ! सम्प्रत्यस्माकं यादृचो गाढानुरागो वर्त्तते तादृक्षोऽग्रे किंस्थास्यति ! स्वस्वमातापितृभ्यां यस्मै कस्मैदीयमाना वयं पराधीनतया स्वस्वश्वशुरालयं गमिष्यामः । अतोऽविच्छिन्नस्नेहोऽस्माकं यथा भवेत्तथा
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir