Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir JanArchanaKendra
www.kobabirth.org
Achh
agan Gyaan
चतुथे।
प्रस्ताव
अजितसेन शीलवतीचरितम् ।। ॥९५ ॥
| तस्मिन्क्षणे कन्याया मातापितरौ सम्बन्धिनोऽन्ये जनाश्चतत्रसमागत्यद्वौ वरौ विलोक्य परमं विस्मयं प्रापुः । महान्तं विरोधश्च निष्पादयामासुः । इत्येतद्वृत्तान्तं भानुसिंहोऽनङ्गसेनाया अग्रे कथयित्वा पुनस्तामपृच्छत्-चारुलोचने ! त्वं सर्वकलासु दचा श्रूयसे, तस्मात्त्वं ब्रूहि, उभयोर्मध्ये को वरः कन्यामर्हति ? मातापितरौ कस्मै स्वकीयां कन्यां दत्त्वा निवृत्ति भजतः! कश्चवरः कन्यारत्नमप्राप्यप्रयाति ! तस्य निर्णयं त्वमेव सद्यः कुरु, तदनन्तरं तुभ्यं सपादलचं धनं दवा त्वया सह भोगविलासान्करिष्यामि । इति क्षत्रियकुमारेण गदितं वृत्तान्तं निशम्याऽनङ्गसेना तदुत्तरं दातुं न शशाक । तदा भानुसिंहेन सा जगदे-अनङ्गसेने ? तुभ्यं प्रतिज्ञातं धनं न दास्यामि, स्वस्थानश्च गमिष्यामीति तिरस्कारगिरं श्रुत्वा क्रुद्धा सा गणिका भानुसिंहसमेता ताभिश्चतसृभिः कन्याभिरविष्ठितायां न्यायसभायां गत्वा निजवृत्तान्तं कथयितुमाज्ञामयाचत । राजकन्यया सामाणि-सुखेन निजाशयं प्रकाशय, लब्धादेशाऽनङ्गसेना तावनिजगृहव्यवस्था समाचख्यौ । ततो भानुसिंहेन सार्द्ध यो विवादो जातस्तत्सकलं स्वरूपं तया प्रकाशितम् । ततः कन्याप्रदानविरोध निरूपयितुं भानुसिंहोक्तां समयां प्राप्तव्यवार्ता गदितुं सा प्रारमत-तां वार्ता कुर्वन्त्या अनङ्गसेनाया मुखाच्चतसुखां कन्याना गान्धर्वलग्नस्य वृत्तान्तं श्रुत्वा ताः कन्यास्तां वार्ता स्वकीयां मन्यमानाः संशयितमानसा जझिरे। परस्परं ता मुखानि विलोकयामासुः, तां वार्ता निवेद्य विरतायामनङ्गसेनायां राजसुता विवादनिर्णयमाह-यो हि वरजनको भूत्वा वरं गृहीत्वा विवाहमण्डपं समागतस्तस्मै सा कन्या | प्रदेया । तदितरवरस्यतत्कन्यायां कोऽप्यधिकारोनास्त्येव । ततस्ताश्चतस्रोऽपि गणिका प्रोचुः-अनङ्गसेने ! त्वयाप्रतिवादि| नोऽग्रे यत्प्रतिज्ञातंतनिर्णयो नविहितस्तस्मात्त्वपराजितैवाऽसि । नात्रमनागपिसन्देहः । अतः प्रतिवाद्यधुनाऽपृष्टव्यो विद्यते,
।
For Private And Personlige Only

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244