Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 207
________________ नरपते ! स्वयमेवविचार्यताम् , निजकराङ्गुलयः समानाकाराः सन्ति किम् ? काश्चनइस्वाः काश्चनदीर्घा भवन्ति, तथैवजगति सर्वेपुरुषाः समानाचारा नसन्ति, स्त्रियोऽपितुल्यस्वभावाः सर्वा न दृश्यन्ते । केचित्सवुद्धयः केचिदसदाचारा इतिद्विविधो मानववर्गो विद्यते । तस्मादसावजितसेनभार्या शीलवती शीलरत्नकभूषणा महासती विद्यते, कश्चिदपिदोषलेशोऽस्यां न संभाव्यते, तस्याः सद्गुणैः प्रसन्नीभूयकेनचिद्देवेनेदं मनोहरं सुकोमलं कमलं प्रदत्तमस्ति । अस्य कमलस्य महान्प्रभावो विद्यते । इति सुमतिचन्द्रेण कथिता वार्ता समाकारिमर्दनः स्वमनसि व्यचिन्तयत्-अस्मिन्प्रस्तावे मतद्वयं जातम् , इमे प्रधानाः शीलवतीकुलटाऽस्तीति वदन्ति, सुसतीति सुमतिचन्द्रो वदति । तस्मादस्य कार्यस्य सत्यासत्यनिर्णयस्तुमयाऽवश्य विधातव्यः । इति निश्चित्य तां प्रधानचतुष्टयीं समाहूय रहसि तामब्रवीत्-भो मन्त्रिणः ? यूयं व्रजत, केनाऽप्युपायेन शीलवत्याः कुलटात्वदोषोयदि स्याचदा तं प्रकटीकुरुत । इति नृपादेशमधिगम्य चत्वारस्ते कूटकारिणो मन्त्रिणः प्रमुदिता बभूवुः। यतस्ते प्रपञ्चविधानेऽतिदवाः परस्त्रीलम्पटाश्वासन, पुनर्नृपतिनैतस्मिन्कर्मणि समादिष्टाः । पुराऽपियन्त्रिजरुचिकर मासीत् , तदेवभिषजाभिहितम् । यथाच-कपिरपि कॉपिशायन-परिपीतो वृश्चिकेन सन्दष्टः । सोऽपि पिशाचगृहीतः, किंबमस्तस्यचेष्टितं लोके ॥ १॥ तथैवजात्यामार्जारस्तदधेदुग्धभृतं माजनं कश्चिद्यदि मुश्चति तहि स सन्तुष्टोभवेत्ता किमुवक्तव्यम् ? तद्वचत्वारस्ते प्रधानाधमाः प्रसन्नचेतसः शीलवत्याः शीलजलं शोषयितुं साक्षादडवानलकणाइव केनचिन्मिषेण निजगृहममि ययुः । गृहमागत्य तदेव कार्य चिन्तयन्तः परिहितोद्भटवेषास्ते मन्त्रिणो मोदमानाः शीलवत्या गृहं गत्वा तदासीमुखेन निजकामोपभोगभावान् शीलवती ज्ञापयामासुः । महामृन्यानि सारवस्तूनि च शीलवस्याः सन्निधौ प्रेषयामासुः। विषयोपभोग For And Persone l

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244