________________
नरपते ! स्वयमेवविचार्यताम् , निजकराङ्गुलयः समानाकाराः सन्ति किम् ? काश्चनइस्वाः काश्चनदीर्घा भवन्ति, तथैवजगति सर्वेपुरुषाः समानाचारा नसन्ति, स्त्रियोऽपितुल्यस्वभावाः सर्वा न दृश्यन्ते । केचित्सवुद्धयः केचिदसदाचारा इतिद्विविधो मानववर्गो विद्यते । तस्मादसावजितसेनभार्या शीलवती शीलरत्नकभूषणा महासती विद्यते, कश्चिदपिदोषलेशोऽस्यां न संभाव्यते, तस्याः सद्गुणैः प्रसन्नीभूयकेनचिद्देवेनेदं मनोहरं सुकोमलं कमलं प्रदत्तमस्ति । अस्य कमलस्य महान्प्रभावो विद्यते । इति सुमतिचन्द्रेण कथिता वार्ता समाकारिमर्दनः स्वमनसि व्यचिन्तयत्-अस्मिन्प्रस्तावे मतद्वयं जातम् , इमे प्रधानाः शीलवतीकुलटाऽस्तीति वदन्ति, सुसतीति सुमतिचन्द्रो वदति । तस्मादस्य कार्यस्य सत्यासत्यनिर्णयस्तुमयाऽवश्य विधातव्यः । इति निश्चित्य तां प्रधानचतुष्टयीं समाहूय रहसि तामब्रवीत्-भो मन्त्रिणः ? यूयं व्रजत, केनाऽप्युपायेन शीलवत्याः कुलटात्वदोषोयदि स्याचदा तं प्रकटीकुरुत । इति नृपादेशमधिगम्य चत्वारस्ते कूटकारिणो मन्त्रिणः प्रमुदिता बभूवुः। यतस्ते प्रपञ्चविधानेऽतिदवाः परस्त्रीलम्पटाश्वासन, पुनर्नृपतिनैतस्मिन्कर्मणि समादिष्टाः । पुराऽपियन्त्रिजरुचिकर मासीत् , तदेवभिषजाभिहितम् । यथाच-कपिरपि कॉपिशायन-परिपीतो वृश्चिकेन सन्दष्टः । सोऽपि पिशाचगृहीतः, किंबमस्तस्यचेष्टितं लोके ॥ १॥ तथैवजात्यामार्जारस्तदधेदुग्धभृतं माजनं कश्चिद्यदि मुश्चति तहि स सन्तुष्टोभवेत्ता किमुवक्तव्यम् ? तद्वचत्वारस्ते प्रधानाधमाः प्रसन्नचेतसः शीलवत्याः शीलजलं शोषयितुं साक्षादडवानलकणाइव केनचिन्मिषेण निजगृहममि ययुः । गृहमागत्य तदेव कार्य चिन्तयन्तः परिहितोद्भटवेषास्ते मन्त्रिणो मोदमानाः शीलवत्या गृहं गत्वा तदासीमुखेन निजकामोपभोगभावान् शीलवती ज्ञापयामासुः । महामृन्यानि सारवस्तूनि च शीलवस्याः सन्निधौ प्रेषयामासुः। विषयोपभोग
For
And Persone
l