________________
Shri Mahavir Jain Aradhana Kendra
श्री अजितसेन शीलवतीचरितम् ।
॥ ६७ ॥
143+C++******+K
www.kobatirth.org
प्रार्थनामपि स्पष्टाक्षरैर्निवेदयामासुः । दासीमुखात्प्रधानचेष्टितं विज्ञाय शीलवती व्यचिन्तयत्-रे १२१ कामान्धित चेतसो ऽमृन्मूढाधिगस्तु । ये च मदीयममून्यं शीलरत्नमपहर्तुमिच्छन्ति, किश्चेमे कृपणाशयाः पापकर्मरता व्याघ्रीदुग्धवद्दुष्प्रापमेशीलसर्वस्वंजिघृक्षितुमुद्यमं कुर्वन्ति । नत्विदं ते जानन्ति - कृपणस्यधनं नाग - मणिः सिंहस्य केसराः । जीवतां नैवगृह्यन्ते ऽमीषां सत्याउरस्तथा || १ || ममस्वामिनः करस्थितमम्लानं कमलं विलोक्य तन्महिमानमश्रद्दधानस्यारिमर्दनभूपस्यैवायमनर्थमूलः समा रम्भो विभाव्यते । अन्यथा निःशङ्कहृदया अमीष्टष्टा ईदृशेऽनर्थोत्पादके कर्मणि कथं प्रवर्त्तेरन् ? अस्तु तावदकार्यकरणोद्यतानां दुष्टानाममीषां चित्तं केनाऽपि चमत्कारेणव्यामोहयामि । इति विचार्य तथा निजदासी भणिता- सखि १ निःसारोऽयं संसारः सत्कर्मणा सारभूतो भवति, मानुषं भवं लब्ध्वा संसृतिवर्द्धकेऽसद्व्यवहारे सद्भिः स्पृहा न विधेया, शुभं समीहमानैः 'सञ्जनैर्द्रव्यसंसर्गो न चिन्तनीयः, धर्माभिलाषिभिरुत्तम जनैर्मद्यपान रतिर्महानर्थप्रदा कस्मिन्नपि समये न विधातव्या, कुलान नाभिः सर्वथा निरयाध्वदूती परपुरुषसंगतिस्त्रिधा हेया । सत्यप्येवं घृताक्तभोजनवाञ्छया यथोच्छिष्टमप्यन्नं भक्ष्यते तथा मुखमार्गितं यदिद्रव्यं मिलति तदा परपुरुषसङ्गोऽपि विधेयः । तस्माद्यदीमेचत्वारो लक्षमितानिष्कान्प्रयच्छन्ति तर्हि सुखे नास्मात्पञ्चमेवासरे निशायां चतुर्षु प्रहरेषु क्रमेणैकैकोमया सह सङ्गतिं करोतु । एवं कथयित्वा तथा निजदासी प्रधानान्ति के प्रहिता, साऽपि त्वरितगत्या निजस्वामिन्या निवेदितां वार्त्ता तत्र समेत्य प्रघानेभ्यः कथयामास । इतः शीलवती तच्छचांदित्सुर्निजगृहस्यपश्चिमेऽपवर्के महान्तमेकं कूपं खानयतिस्म, तदुपरि केवलवखाच्छादितमेकंपन्यङ्कं स्थापयामास । अथ पञ्चमे वासरे संप्राप्ते रजन्यां स्वात्मानं कृतार्थ मन्यमाना मनोज्ञवसनाभरखैर्विभूषिताङ्गाश्चत्वारस्ते लचनिष्कान्गृहीत्वा शील
For Private And Personal Use Only
******+++**+ +£03+01+******+***CC
Acharya Shri Kassagarsun Gyanmandir
प्रस्तावः।
॥ ६७ ॥