________________
ShriMahavir JanArchanaKendra
Achh
aun Gym
-
वतीनिकेतनं समाजग्मुः । तेषामेका प्रथमप्रहरे शीलवतीसन्निधौ समागत्य तस्थौ, शीलवत्यपि निकटवर्त्तिनंतं निरीक्ष्य सत्कारपुरःसरमपवर्कनीत्वा तस्मिन्कूटपन्यङ्के समुपवेशनाय समादिदेश । प्रधानोऽतिरमणीयां भोगशय्यां विलोक्य संजातप्र| मोदोयावत्तस्मिनिषीदति तावत्कामान्धितलोचनः स पापबुद्धिः कूपतलंभेजे । ततः शीलवती वस्त्रान्तरेण तंपर्यक्रमाच्छादयामास । द्वितीयस्मिन्प्रहरे द्वितीयः प्रधानस्तथैवागत्य संस्थितः, सोऽपि शीलवत्या निर्दिष्टं शयनासनमारोढुं प्रयाति तावत्स्वमित्रवृत्तान्तंजिज्ञासुरिव तत्सन्निधौ स्थितिञ्चकार । तथैव तृतीयचतुर्थप्रधानावपि कूपवर्तिनौ बभूवतुः । अस्मिनोके ये दुराचाराः पापचेष्टयाऽनुचितं कार्य विधातुंसमीहन्ते तेषां तादृश्येवशिक्षा प्रदातव्येतियोग्यतममेव । अथैते चत्वारो महागर्तेपतिताः स्वचेतसि व्यचिन्तयन , अहो ? अनया शीलवत्या समीचीनमेतद्विहितम् । यतोऽस्माकमस्थीनि न भग्नानि, अस्मादृशानां दुष्कर्मविधायिनान्त्ववश्यतयाऽस्थिभङ्गो विधातव्यस्तथाऽपि दयाभावा सा भामिनी विभाव्यते । यदसौ गुणशालिनी दक्षस्वभावा विद्यतेऽतस्तया निजगुणोल्लङ्घनं नाऽकारि । इत्थं कुपस्थास्ते विकल्पयन्तो नरकोपमा विविधां वेदनामनुभवन्तः स्वकर्मोपार्जितं दुःखं विभावयन्तः स्वचेतसि पश्चात्तापं प्रकुर्वन्तः प्रभूतेनकष्टेनदिनानि निर्वाहयामासुः । अथ शीलवती विहितापराधेष्वपितेषुदुष्टेषु दयां विधाय कोद्रवादि निःसारमन्नंपाचयित्वा निःस्वादेनतेनाभेन पूरितमृन्मयमेकैकपात्रं रज्जुप्रयोगेण तेभ्यः प्रत्यहं ददाति, जलमपि तथैव प्रयच्छति । मन्त्रिणोऽपि तद्दत्तमनजलं स्वीकुर्वन्तस्तत्रैव नरकावा। सदुःखं स्मरन्तस्तस्थुः। यथा भिषग्वर्यः पथ्यभोजनेनसदौषधंदत्वा महारोगमुपशमयति, तथा शीलवत्यपि विषयरोगग्रस्ते
भ्यः प्रधानेभ्योग पातनमहौषधिदत्वारुक्षनिःस्वादपथ्यानदानेन तेषां विषयरुजं निर्मूलां कर्तुं समारेभे । एवञ्चषण्मासा
For Private And Personlige Only