________________
HAR
| चतुर्थः
प्रस्ताव
मज्ञासीत् । तेनापिसंक्षेपतो निजवृत्तान्तं तस्या अंग्रे समाचख्ये, तदुक्तंवृत्तान्तं समाकर्ण्य सा गणिका स्वचेतसि व्यचिन्तयत्अजितसेना
धिङ्मजीवितम् , ईदृशं तेजस्विनं सर्वकलादचं चतुरं गम्भीरस्वभावं नरोत्तम परित्यज्य नीचजनैरुपसेव्यां लोकेनिन्द्यता शीलवती- पितृकुलकलङ्कदायिनीमिमां गणिकावृत्ति विधाय परिणामे दुरन्तदुःखभाजनं भविष्यामि । अतोऽयंवेश्याचारः सर्वथा मया चरितम् । परिहर्त्तव्यः। इति निश्चयंविधाय तयाऽपि स भानुसिंहो ववे । अथताश्चतस्रः कन्याः स्वस्वमातापित्रोरणे स्वकीयमुदन्तं
निवेद्य समाचख्युः-अस्माभिरयमेवपतिर्विवक्षितः, इति सत्यसंकल्पोविहितोऽस्ति, तस्मादनेन पुरुषेण साकमस्माकं ॥९६॥
पाणिग्रहं कारयत । ततस्ताभिः कन्याभिर्भानुसिंहस्य प्राक्तनं सकलमुदन्तं व्यावर्णितम् , किश्चायं पुरुषः प्रतिष्ठानपुरपत्तनस्याधिपतिः प्रजापालाभिधो वर्तते, सोऽत्र किमपि कार्य साधयितुं समागत इति कन्यकोक्तं तच्चरित्रं निशम्य भूपतिप्रधानप्रभृतयः सर्वे भृशं प्रमोदमवापुः । ततो नृपादिभिः सर्वैः स्वस्वकन्यानां शुभ मुहूर्ते लग्नमहोत्सवं विधायाप्रमितधनव्ययश्चक्रे । तासां पाणिमोचनावसरे निजपितरोहस्त्यश्वरथादीनां बहुविधानि दानानिवितेनिरे । तच्छुश्रूषणार्थ च दासीदासगणानदुः, इत्थमनेकविधवसनालङ्करान्प्रदाय कन्याभिः परिकरितं प्रजापालनरेश्वरं निजराजधानी प्रतिप्रेषयामासुः। एवमजितसेनप्रधानः सुमतिचन्द्रः प्रधानचतुष्टयसमन्वितमरिमईनभूपमभिधाय पुनस्तमुवाच-महाराज! अस्या वार्तायाः सारस्तुत्वया विज्ञात एव, आसां कन्यानां पतिव्रतात्वं कीदृशं विशुद्धं वर्त्तते ! विलोक्यताम् , याभिर्गुप्तवृत्त्या पतिर्विहितस्तथाऽपि तदतिरिक्तं पतिमनिच्छन्त्यः शीलव्रतपालने तत्परा बभूवुः राजसभायामुपविश्यताः सत्यासत्यखरूपं निर्णयामासुः । यदा स्वपरिणीतः सत्यपतिमिलितस्तदाताभिः स एवाङ्गीकृतः । तस्मात्पृथिव्यां सतीव्रतसेविन्यः काश्चन भवन्ति ।
॥९६॥
For PvAnd Persone
ly