________________
Acharya Shri Kasagaran Gyaan
यतोऽसौ सर्वथाप्राप्तजयोलक्ष्यते । अथ ताः कन्या भानुसिंहमपृच्छन्-भोः पथिक ! त्वं कोऽसि ? कस्मादस्मिन् विवादे त्वं पतितः आकृत्याभवान्कोऽपि राजवंश्योविभाव्यते । लब्धप्रतिष्ठस्त्वं गणिकौकसि कथंप्रयातः १ तत्स्वरूपमस्मान्समाचक्ष्व । तदानीं भानुसिंहेनेतिश्लोकोऽपाठि-नभवति यन्नहिभाव्यं, मवतिहिभाव्यं विनाप्रयासेन । करतलगतमपि नश्ये-मास्तिहिभवितव्यता यस्य ॥१॥ अस्यपद्यस्य श्रवणमात्रेणैव सद्योजातप्रत्ययास्ताश्चतस्रो निजवा मस्मार्षुः । अयमेवास्माकं प्राणप्रियः प्रतिभाति, नाऽन्यः, इति निश्चित्यतमुपलक्ष्यसहसा ताः सिंहासनादुत्तीर्य निजोचितमर्यादयाविहिताञ्जलयस्तत्सन्मुखंतस्थुः, ऊचुद-स्वामिन् ! वयंचतस्रोनिर्दोषा निष्कलङ्का भवामस्तस्मादस्मान्किङ्करीसमा गणयित्वास्वीकुरु । प्रियपते ! अस्या अनङ्गसेनाया वार्ताश्रुत्वा साशङ्कचेतसामस्माकं मानसं त्वयिसमुत्कण्ठितं जातम् । निजचेतसि च विज्ञातमस्माभिर्यत्पूर्ववृत्तान्तस्मरणार्थमेव त्वयाऽयंप्रपञ्चो विहितः । अस्मिन्कार्येभवताबृहबुद्धिचातुर्य व्ययितम् । यतः-पूर्व भवान् यदा मत्पितुः सन्निधौ समागत्यभृत्यभावेन संस्थितस्तदानीन्तनवेषस्याधुनिकवेषस्य च भूमिपाषाणवन्महदन्तरंदृश्यते, तथाऽपि विलासोद्याने ऽस्माभिर्भवानेव परिणीतः । भवतोवंशजन्मादेः किमपिज्ञानं नास्त्यस्माकंतथापि चतसृणामस्माकं भ त्वमेवासि, न वर्यतवजात्यादिकमपेक्षामहे । इत्थं तासांवचनं निशम्य स्वयं कीदृग्जातीयः! कस्माचराज्यवैभवं परित्यज्यात्र समागतः । इति साद्यन्तं स्वकीयं वृत्तान्तं सविस्तर तासामग्रे तेन निवेदितम् । तच्छुवणमधुरं वृत्तान्तं श्रुत्वा सर्वास्ताः परमानन्दं भेजुः । न्यायागारस्थिताः सर्वेलेखकादयोऽपि विस्मयं प्रापः । अनङ्गसेनागणिका च चित्रोल्लिखितेवस्तब्धमानसा जज्ञे । ततोऽनङ्गसेना स्त्रीमर्यादां पालयन्ती सविनयं हस्तौनियोज्य भानुसिंह विविधप्रश्नश्रेणी पृष्ट्वा तन्मनोभिप्राय
For Private And Personale Only