Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 202
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir चतुर प्रस्तावः। श्री कोऽप्युपायोऽस्माभिश्चिन्तितव्यः। तदाकर्ण्य राजसुताऽवादीत्-सहचर्यः ? अस्माभिर्यदि मातापित्रादिसम्बन्धिवर्गमपृष्ट्वा रूपअजितसेन गुणखानिर्योग्योवरो वियते तदाऽस्माकमखण्डितस्नेहश्चिरं तिष्ठेत् । इति नृपसुतावचनं निशम्य सर्वाभिस्ताभिस्तद्वचनशीलवती-- मङ्गीचक्रे । अथैतस्यामेव पाठशालायां पठन् रूपगुणसंपन्नः सद्विद्याप्रवीणः कश्चिद्व्यवहारिपुत्रः समानवयाः समभूत् । तेन पनि सार्द्ध परिणयनसंकेतस्ताभिश्चके । ततो राजसुतया फलकोपरि परिणयनवृत्तान्तं विलिख्य प्राप्तव्याय प्रदचम् , कथितञ्च तया-रे दूत ! इदं फलकं त्वया रहसि स्थिताय व्यवहारिसुताय प्रदेयम् , प्राप्तव्योऽपि गृहिताज्ञोवर्मनिगच्छन्स्वयं लेख ॥९४॥ | वाचयित्वा श्रेष्ठिनोगृहंगत्वा तत्सूनवे प्रादात् । तल्लेखार्थ विभाव्य कुमारेण प्रदत्तं लेख समानीय राजपुत्र्यै प्रदत्तवान् । तत्प्रभृति ताश्चतस्रस्तेन साकं पत्रव्यवहारं कुर्वन्त्यश्चैकस्मिन्दिने पाणिग्रहणसमयं निश्चयामासुः, विवाहस्थलमपि कल्पया| मासुः । विज्ञातैतद्वृत्तान्तः प्राप्तव्यः स्वमनसि भृशं प्रमुदितोऽभवत् । ततोऽपरस्मिन्दिने प्रातः समुत्थाय स निजपरिचितस्य महेभ्यस्य गृहं गत्वा राजसुतादीनां विवाहवृत्तान्तं निवेदितवान् । महेभ्यस्तच्छुत्वा भयत्रस्तोऽजनि, रे! किमिदानी मया विधेयम् । इदं वृत्तान्तं नृपतिर्ज्ञास्यति चेत्ससुतस्य मम मरणं शरणं भविष्यति, रे! दूत ? अस्ति कश्चिदुपायः ? यदस्मादापद्वारिधेमेंदुद्धारः स्याद् ! प्राप्तव्योऽवदत्-महेभ्य ! माभैषी, तवपुत्रस्याहंप्रतिनिधीभृय प्राणोपघातकमिदमसाध्यं कार्य भवतः स्नेहवशात्संपादयिष्यामि, भवता निजपुत्रश्चत्वारि दिनानि रहसि रक्षितव्यः । इत्यभिधाय स स्वकीयस्थानमियाय । अथ लग्नदिवसे प्राप्तव्यो वरोचितानलङ्कारान्धृत्वा वर्मनिगच्छन्नेक पण्डितं पुरोहितं सहादाय संकेतितस्थाने राजकन्यादीनामागमनं प्रतीचमाणः स्थितस्तावद्गाढान्धकारच्छबायां रजन्यां ताः कन्या अपि त्वरितगत्या तत्र समागताः । ततः पुरो ॥१४॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244