Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 200
________________ चतुर्थः प्रस्ताव अजितसेन शीलवतीचरितम्। ॥९३॥ समाहूय निजगाद-पूज्यपाद ! द्वादशमासान्यावयुष्मामिर्ममपरिचर्या प्रभूता विहिता, तस्मादियंसमृद्धिर्भवतास्वीक्रियताम् । मयश्च प्रयाणाशांदेहि, आगामिनिवासरे मे जिगमिषावर्चते । ततः श्वश्रुश्वशुरौ पारवेश्मिका अन्येऽपि जनाश्च जामातुर्महान्तं पराक्रम समवलोक्य विस्मयंप्रापुः । समार्यो महेभ्यस्तुपश्चाचापं कुर्वश्चिन्तयितुं लगः, द्वादशमासान्यावदसौ जामाता परोपजीवीव पराधीनतया जठरपिठरं रोट्टकखण्डैः पूरयतिस्म । पराक्रमशालिनमिमं तर्जयता मया महानपराधो विहितः । अद्यावधि काऽपि निपुणताऽस्य न दृष्टा, क्षणादयं धनराशिः कुतोऽनेनमेलितः किमेतज्जातम् ? कस्याप्यग्रे निजसत्ववृत्तान्तमनेन न प्रकटीकृतम् , इत्थंचिन्तयन्तः पौरजना अपि स्वस्वस्थानं जग्मुः । अथ प्रभाते मणिचन्द्रः समायः स्वदुहित्रे विविधानिवस्त्राभरणानिप्रदाय निजजामात्रेचा सकला सम्पत्ति वितीर्यस्वापराधं चमयित्वा शुभलग्नवेलायां पुत्रीजामातरौ | निजपुरं प्रेषयामास । एवं सभार्येण मणिसेनेन निजजनकाजैकवशंवदेनवर्षमेकं श्वशुरालये स्थित्वा मानसिकपितृहननदोषो निवारितः। इतस्तेनाऽमीचन्द्रेण सपादलचमून्य एकः श्लोको गृहीत इति विदित्वा तस्यत्रयोऽनुजाः परंविषादमवापुः, मिथस्ते प्रोचुः-इमाः सर्वाः सम्पत्तयोऽस्माकं सर्वेषां वर्तन्ते, नत्वेकाकिनो ज्येष्ठभ्रातुः । कथमनेनैकाकिनाऽस्मानपृष्ट्वामुधाधनहानिकरमिदं कार्य विहितम् ? अतोऽसौ ज्येष्ठबन्धुरचिरेणास्माभिचार्थिनः करिष्यति । तस्मात् केनापि कूटविधिना व्यापाद्य सर्व धनमस्माभिः स्वाधीनीकर्तव्यमितिमन्त्रयित्वा कतिचित्प्रवहणानि प्रगुणीकृत्यबहुविधैः क्रयाणकैर्भूत्वाचत्वारो भ्रातरो निजपितुराज्ञां समादायदेशान्तरंयियासवः प्रवरं प्रवहणं समारुह्याचेलुः। वर्मनिव्रजतां तेषां सप्तवासरा व्यतीयुः । ततोऽन्यस्मिन्दिनेवर्मन्येकोमहान्द्वीपः समागतः, तं च विलोक्य तत्रस्थितं जलादिकमाहर्तुं तत्र प्रवहणानिस्तम्भयित्वा चतुर्भिर्भूत्यैः सह For PvAnd Personale Only

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244