Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री भजितसेन
शीलवतीचरितम् ।
॥ ९२ ॥
**@***-*0*→************@
www.kobatirth.org
समेतो मणिसेनो मातापितरौ प्रदक्षिणीकृत्य प्रणम्यचगृहीताऽऽशिष्कोगृहान्निरीयाय । सततप्रयाणेन वर्त्मनिव्रजन् सप्तभि दिवसैः स निजश्वशुरालयं प्राप । श्वशुरपक्षीयैस्तयोः स्वागतं चक्रे, चत्वारि दिनानिभोजनाच्छादनादिभिरुभयोः सत्कारः सम्यग्विहितः । यतः प्राघूर्णकाविमाविति विज्ञाय तैस्तौ सन्मानितौ । पञ्चमे वासरे समागते चेयं लौकिकोक्तिस्तयोः सत्यासमजनि, प्रथमे वासरे प्राचूर्णको द्वितीयस्मिन्दिने पणकतृतीयांशसमानस्तृतीयस्मिंश्च वासरे यस्तिष्ठतितस्यबुद्धिर्विनष्टेति निगद्यते । तथैवानयोः प्रतिदिनंश्ववद्भोजनं कुर्वतोर्दिनानि प्रयान्ति, पराधीनतयागृहाडालिकायामुभौदम्पती शयनं कुरुतः । गृहवासिनो जनाश्च निजान्तिकस्थायिनो जनान्पृच्छन्ति - जामातुरत्रागमने को हेतुः ? निजदेशगमनवार्त्तामप्यसौ न करोति । तद्वृत्तान्तंतैः श्रेष्ठिसुतासमाचख्ये, तदासा प्रोवाच - अहन्तुकिश्चिदपि न जानामि । एवं गच्छता कालेन तयोः षण्मासाव्यतीयुः । ततोऽन्येद्युर्मणिसेन भार्या निशीथसमये गुप्तसञ्चारा तत्समीपंगत्वाऽपृच्छत् - स्वामिन् ? अत्र कतिपयदिवसानी - दृशप्रकारेण स्थातुमिच्छा वर्त्तते १ नागरिकाः सर्वे गृहवासिनो जनाश्वमां प्रत्यहं पृच्छन्ति, कदागमिष्यथः १ इति तेषां किमुत्तरं ददामि ! अतः कृपां विधाय प्रयाणसमयं निवेदयतुभवान् । मणिसेनस्तांजगौ-प्रिये ! अधुना किं वदामि ! प्रयाणकालस्य महान्विलम्बो विद्यते, तस्मात्प्रच्छन्नगमना त्वं गृहवर्त्तिनी भव । श्रधुना गमनवार्त्ता त्वया न विधेया । यदा गमनावसरो भविष्यति तदाऽहं त्वां ज्ञापयिष्यामि । इत्थं पतिवचनं स्वीकृत्य सा गृहान्तरे जगाम । जामाता सुता च किमर्थमत्र समागाताम् ! भूयान्समयो व्यतीतस्तथाऽपि सहागमनकारणमुभौ न ब्रुवाते, इति मणिचन्द्रादिषु चिन्तयत्सु तयोर्दिवसद्वयोनमेकं वर्ष जातम् । तद्दिनस्य निशीथे निजभार्या पूर्ववदागत्यमणिसेनं प्रयाणावसरं
For Private And Personal Use Only
Acharya Shri Kaissagarsun Gyanmandir
चतुर्थः
प्रस्तावः ।
॥ ९२ ॥

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244