Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
निश्चित्यपुनः स्वकीयराज्यव्यवस्थां मुख्यामात्यायदत्त्वा यात्रामिषेण स मदनपुरमभीयाय । तत्रैकस्यां धर्मशालायामुत्तारकं परिकल्प्य राजवंशोचितवसनाभरणानि परिघाय नगरचेष्टांविलोकितुं स बहिर्ययौ । इदानीमनेन प्रजापालेन निजनामाऽपहूनुत्य भानुसिंहेत्यभिधानं प्रकटीचक्रे । नगरान्तरे परिभ्रमन् भानुसिंहो लब्धप्रतिष्ठस्य धनाढ्यस्य कस्यचिद्वयवहारिणोहट्टस्थान्तिके गत्वा किमपि विलोकमानइव तस्थौ । तदानीं हट्टस्थितोमहेभ्यस्तं निरीक्ष्य दीव्यकान्तिचिन्हैरयं राजकुमार इति विज्ञाय तं सत्कृत्यसमुचितस्थानेन्यवेशयत् । मिथस्तयोर्वार्त्तालापं कुर्वतोर्भानुसिंहोऽवकाशंलब्ध्वा नृपादिकन्यानां विवाहसम्बन्धिवृत्तान्तमपृच्छत् - तदामहेभ्योऽवादीत् चतस्रोनृपादिकन्याः स्वयंवरमहोत्सवमिच्छन्ति, किन्तु तासां मातापितरस्तं निषेधयन्ति । अतस्ताश्चतस्रः सम्प्रति न्यायसमनि न्यायावलोकनं कुर्वन्ति । तासां न्यायाऽन्यायविज्ञानकौशल्येन प्रजानांमनोरञ्जनेनच प्रसन्नहृदयो भूपतिस्ताभ्यएवेदं दुःसाध्यं न्यायकार्यंप्रादात् । इत्थं व्यवहारिणो मुखात्तासां गुणचातुर्य निशम्य तन्मीलनेवोत्सुकोऽपि भानुसिंहोविचिन्तयन्कमप्युपायंनालभत । केननिमित्तेन तत्रमया गन्तव्यम् १ केन प्रकारेण तासामग्रे ममप्रसिद्धिर्भवेदिति विचारयता तेनेति स्वमन सिनिश्चितम् केनाऽपि जनेनसह क्लेशोमयाविधातव्यः येन तासां समीपे ममगमनं सद्यो भविष्यति । इत्थं दृढीकृत्याग्रे व्रजतस्तस्यवर्त्मनिमनोहर एकः प्रासादो दृष्टिगम्यो वभूव । तत्प्रासादद्वारदेशे महानेको दुन्दुभिस्तेन विलोकितः । ततस्तेन तद्वृत्तान्तं तन्मार्गगामीकश्चिन्नरः पृष्टः । तेन पान्थेन तदा निवेदितम्-रे वैदेशिक ? अस्मिन्मनोरमे प्रासादे दीव्यकान्तिश्चातुर्यकला कोविदाऽनङ्गसेनाभिधा गणिका निवसति, तया चादुन्दुभिः संस्थापितः । यस्यतत्समागमेच्छा भवति सविलासी नर इमं दुन्दुर्भिस्पृशति, अस्यताडने सपादलक्षरूप्यकाणां
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
**< 69++*<***+******++++

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244