________________
Achnashtags Gyarmande
| ततो भानुसिंहो निजाभीष्टां वार्ता वक्तुं प्रारभत-सकलसमृद्धिनिदानमानन्दपुराभिधं यथार्थसंझं पत्तनमस्ति, तस्मिन्मणि
चन्द्रनामा जनमान्यएकोविद्वान् वसतितस्यसर्वगुणसंपन्नः सकलकलाकलितो राज्यकार्यविधाने निपुणमतिः सर्वजनसबुद्धिप्रदायको लोकप्रियः सतां सदामान्यो मणिसेनाभिधेयः पुत्रो वर्त्तते । प्राप्तसद्गुणः सर्वजनोपकारकः सद्वृत्तः स मणिसेनो निजगृहमागत्य स्वमातापित्रोरणे स्वपराक्रमस्य वार्ता यदा निष्कासयति तदा तत्पिता तदसहमान इव सहसा तद्वार्ता| बोटयित्वा तिरस्कारवचनस्तं भर्त्सयति । प्रतिक्षणञ्चतं कथयति-अद्याऽपित्वं किश्चिनजानासि, बुद्धिलेशोऽपि त्वयि न विद्यते, मूर्खशिरोमणिरेवत्वमसि, ईदृशानि निन्द्यवचनानि प्रयुञ्जानस्तजनकस्तस्यपत्न्यां शृण्वन्त्यां तजीवितं कपर्दिकोपमं करोति । तथापि मौनं सर्वार्थसाधकमिति विचिन्त्य मणिसेनो जनकोक्तं सर्व सहमानो निरुपद्रवस्तिष्ठति । परन्तु तदसा दुःखं कियत्कालं सोऽपि सहते ? ततोऽन्यदा खपत्न्यां संस्थितायां मणिसेनस्तत्पित्रा परुषवाक्यैर्भृशं तिरस्कृतस्तस्माद्भूरिक्रोधेन तप्यमानो मणिसेनो निजपितुर्मारणस्य निश्चयं कृतवान् । ततो निशायां तत्पिता महानसेमोक्तुमुपविष्टस्तदानीं मणिसेनः समीपवर्जिनः कस्यचित्क्षत्रियस्य गृहात्खनं समानीय गुप्तवृत्त्या महानसद्वारस्य पृष्ठभागेनिलीय खमनसीत्थं विचारयति-भुक्त्वाऽसौ मुखप्रक्षालनार्थ यावद्वहिनिःसरति तावदनेन खड्गन तस्य शिरश्छेदं करोमि । तथाकृते शीतवारिणा पामा विनंत्यति । इत्थं विचिन्तयति तसिन्वारिरिक्तं कलशं दृष्ट्वा भोजनं कुर्वाणस्तत्पिता स्वभार्या प्रतिजलमयाचत । तद्भार्या जलं ददती निजपतिं प्रति कथयति-स्वामिन् ! अस्मदीयः पुत्रो गुणगणालंकृतो राजमान्यः सर्वत्र लब्ध। प्रतिष्ठो विद्यते. तस्य तिरस्कारं तत्पत्नीसमचं प्रत्यहं त्वं करोषि तद्योग्यं न जायते । अयं पुत्रो महाक्षमावान् वर्त्तते,
For Private And Personale Only