________________
चतुर्थः प्रस्तावः।
अजितसेन शीलवतीचरितम् ।
॥९
॥
| व्ययोभवति । यस्यैतादृग्धनप्रदाने सामर्थ्य भवेत्सैवनरस्तताडयित्वा गणिकायाः समागमलभते । अन्यथातन्मुखदर्शनमप्यन्येषां जनानां नजायते । इतिपान्थगदितं वृत्तान्तं श्रुत्वाभानुसिंहो व्यचिन्तयत्-दुर्बलेनकेनचित्साकं वैरंविधाय न्यायमन्दिरेयद्गन्तव्यं तत्तुनीचजनसेव्यं निन्दनीयकर्म लोकेगण्यते । तस्मादिदं गणिकागृहगमनं श्रेष्ठं विद्यते, यतश्चोक्तम्-मारयितव्यश्चेद् द्विपेन्द्रोहन्तव्यः लुण्टनीयश्चेन्निधानोऽपहर्त्तव्यः किम्बानार्यसंगमान्महद्भिः साकविरोधोऽपि वरमितिविचार्य तस्य दुन्दुभेः समीपंगत्वा दण्डौ गृहीत्वा स यावदलं तंताडयामास । येनध्वनिना सकला नागरिकाः क्षणं धृतबाधिर्याबभूवुः । तं ध्वनिश्रुत्वाऽनङ्गसेनाऽपि धृतोत्साहा निजकार्य परिपूर्ण जातं प्रभूतधनप्राप्तिरद्यमे भविष्यतीति मन्यमाना निजदासीभिः परिकरिता स्वासनात्सहसासमुत्थाय तं कुमारं समानेतुं सन्मुखमागत्य स्वागतोक्तिच्याहृत्य शुभशब्दानुच्चारयन्ती निज| रङ्गभवनेनिनाय । बहुधा तस्य सत्कारक्रियां विधायानपरत्नमयेप्रवरासनेतमुपवेश्य स्वयमपि योग्यासनभाग् बभूव । ततो ऽनङ्गसेनयाक्षणं वार्तालापं विधाय निजप्रतिज्ञातं दुन्दुभिवृत्तान्तं तस्मैन्यवेदि । तदा भानुसिंहस्तामुवाच-वाराङ्गने ! धनसम्बन्धिनी काऽपि चिन्ता त्वया नविधेया । ततोऽनङ्गसेना तेन साकं क्रीडितुमियेष। तदभिप्रायं ज्ञात्वा भानुसिंहः प्रोवाच-अनङ्गसेने! यथात्वं निजाभिलषितनियममास्थाय संस्थिताऽसि, तथैवाहमपि स्वप्रतिज्ञातनिर्वाहकोऽस्मि । तद्यथायद्वृत्तान्तमहं कथयामि तस्य निर्णय मे मनःसम्पादकं यथार्थ करोषिचेत्त्वयासाकं भोगविलासान्कर्तुमिच्छामि, त्वत्प्रतिज्ञातं धनञ्चतुभ्यं प्रयच्छामि । अन्यथा कपर्दिकामात्रमपि न ददामि, मदुक्तमिदं वचनं तव मान्यं स्याच्चेदत्र तिष्ठामि । नोचेत्त्वं स्वकार्यसक्ता भव, अहमपि मार्गाभिमुखो भवामि, न तावता कस्यचित्किञ्चिद्गतम् । इत्थं नृपवचनं तयाऽप्यङ्गीचक्रे ।
॥९
॥
For Private And Personale Only