________________
चतुर्थः
प्रस्तावः।
भजितसेन श्रीलवतीचरितम् । ॥९ ॥
ईदर्भवदुक्तैः परुषवाक्यैरपि विनयमर्यादामसौ न जहाति, उच्चस्वरेण प्रत्युत्तरमपि न ददाति, अस्मद्वचनं कदापिनोलकयति, ईग्विघं विनीतपुत्रं विनाऽपराधेनक्षुद्रवचनर्निर्भय॑तस्यापयशोविस्तारयसि तद्योग्यं नाचरसि । प्रत्युतस्वकीयं मुखं निम्नं जायते । इति निजभार्यावचनं श्रुत्वा मणिचन्द्रेण कथितम्-प्रिये ? एष सूनुर्ममापकर्ता नास्ति, मत्प्राणेभ्योऽप्यधिकवल्लभोऽस्ति, अस्मित्राज्येतस्य प्रतिष्ठासुष्टुतरा श्रूयते, जनमुखादस्यगुणानां प्रशंसां निशम्य मम मानसं भृशंतुष्यति, किञ्चास्मदीयं परकीयं वाऽपकारं कदापि करोति तादृशाः कुत्सिता गुणास्तस्मिन्नसन्ति, तथाऽपि तस्य प्रशंसामहं न करोमितत्कारणं शृणु-बाल्यावस्थोऽयमधुना वर्त्तते, दुर्बलव्यवहाराणामस्माकं लब्धविद्योयमेकाकीसूनुर्विद्यते । यद्यहंतस्य प्रशंसां करोमितर्हिमदाविलोमत्तेभइवसर्वान् जनास्तिरस्कृत्यस्वेच्छाचारी भवेत् । अस्मानपि नगणयेत् । लघुज्येष्ठानां मर्यादाचारमुल्लचथ प्रवर्तेत । चिरकालीनभूरिश्रमेण सम्पादितां सद्विद्यापरित्यज्याऽसन्मार्गोपसेवनेन नीतिविवेकप्रमुखान्सद्गुणाननासेवमानो बहुविधान्दुर्गुणान्स्वीकृत्य स्वकुलकलङ्कयेत् । अतस्तन्निरोधायप्रतिदिवसंतत्कीर्तिवल्लीप्रसाराय भाविगुणसम्प
वृद्ध्यर्थश्च तस्यमूर्ध्नि शिक्षावचनानुशोमया संस्थापितः । न तु तस्याहितेच्छया मदुपक्रमस्त्वया ज्ञातव्यः । किञ्चतस्मिन् शिक्षाकुशनिवेशनेनतद्भार्यापि कुमार्गमपश्यन्ती नीतिमार्गानुचारिणी भविष्यति । यत:- अश्वः शिष्यश्च बालश्च, प्रमदा च विशेषतः । चत्वारस्खासदानेन, सिद्ध्यन्ति न तु लालनात् ॥१॥ यथाञण्यकाष्ठजन्यो मृदङ्गश्चर्मावगुण्ठितमुखोऽपि करप्रहारमन्तरा मधुरस्वरं न नईति, तथैव हे कान्ते ? महाविझं सकलकलासुनिपुणं यं सर्नु मातापितरौ लालयन्तौ स्वमुखेन यदिश्लाघां कुरुतस्तर्हि स्वल्पेन कालेन स गुणहीनो भवत्येव । उक्तश्चान्यत्र-प्रत्यचे गुरवःस्तुत्याः, परोचे मित्रबान्धवाः ।
॥९
॥
For PvAnd Persone
ly