________________
ShriMahavir Jain ArachanaKendra
Acharya:shaKailassagarsunGyanmandir
|| कर्मान्ते दासभृत्याश्च, । पुत्रो नैव च नैव च ॥ १ ॥ तस्मानिजापत्यादिषु पित्रादिभिः सदाशिक्षाडशो नियमेन धर्त्तव्यः । । इत्थं निजपतिवचनंनिशम्यमणिसेनमाता मौनमुखी तस्थौ । एवं महानसवर्तिनोर्मातापित्रोहितवचनानिशृण्वानो मणिसेनो
झटिति समवबुद्धः स्वमनसिव्यचिन्तयत्-हा दैव ? मम मातापितरौ मद्धितायसततमुद्योगं कुरुतः, अहन्त्वद्य पितृवधायखड्ग गृहीत्वा सजीभूतः । कीदृशमेतद्घातकजनोचितं कर्म मयाचिन्तितम् १ रे दैव! अस्मिन्समये महापापिनो मे जनको | हितवचनानि नाकथयिष्यञ्चेत्स्वल्पेन कालेन महाऽनर्थोऽभविष्यत् । इतिपश्चात्तापं प्रकुर्वाणो मणिसेनस्तस्मात्स्थानाच्छनैनिःसृत्य निजकरस्थितं खरं तत्स्वामिनेदत्त्वाव्याघुव्य महानसे समागत्य भोजनकर्तुमुपविष्टः । भोजनानन्तरं पूर्ववनिजविद्याभ्यासं विधाय स्वनियमानुसारेण निजजनकशुश्रूषायां व्याप्तोऽभूत् । चरणसेवा कुर्वाणो मणिसेनः सविनयं पितरं प्रोवाच-जनक ? येन पुरुषेण मानसिकः पितृहननदोषोबिहितस्तद्विशुद्ध्यर्थ तेन किं प्रायश्चित्वं विधातव्यम् । इति मणिसेनप्रश्नं श्रुत्वातत्पितासर्वतदीयंचेष्टितं ज्ञातवान् , ततस्तमब्रवीत् सूनो ? एष मानसिकपितृघातदोषस्त्वयैवोपार्जितो नत्वन्येन, तस्मात्सत्यं ब्रूहि, कीदृशं तत्स्वरूपं जातमितिशीघ्र निवेदय । इति पितृवचनं शृण्वतो मणिसेनस्य नेत्रयुगलात्रिपतन्त्यश्रुधारा निजतातस्यचरणकमलमसिञ्चत् । ततो विज्ञाततदाशयो मणिचन्द्रस्तमावास्य स्वास्थ्यंनीतवान् , तस्मिन्वये मणिसेनेनहस्तौ नियोज्य विनयवृत्त्याक्षमा याचित्वायथावृत्तं मारणचिन्तनादिसर्व वृत्तान्तं पितुरने न्यवेदि । अथ विज्ञातसर्ववृत्तान्तो मणिचन्द्रस्तनयमचीकथत्-नन्दन ? सभार्यस्त्वं प्रभाते तवश्वशुरालयंव्रज, तत्रचैकं हायनं निर्मानतयात्वंतिष्ठ, यतस्त्वंपिहननचिन्तनदोषान्मुक्तोभविष्यसि । एवं निजपितुर्वचनं स्वीकृत्य प्रभातकाले निजवस्त्रादिकं समादाय भार्या
For Private And Personlige Only