Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 190
________________ ShriMahavir JanArchanaKendra II Achh agan Gyaan दीयमापणं समागत्य किश्चिन्मात्रमुपविशामि । तेन स्नेहसम्बन्धेनाऽहं भवदहितं कार्य ज्ञात्वाऽपि भवन्तं न कथयामि तर्हि || चतुर्थः भजितसेना कृतघ्नो भवामि । इति विदित्वा त्वां विबोधयितुं सचरमहं समागतः । तद्यथा-श्वोनिशायां नृपामात्यन्यायाधीशदुर्गपालानां कतपो भवाला प्रस्ताव शीलवती- चतस्रः कन्यास्तवाङ्गजेन साकं गान्धर्वविधिना लग्नं विधातुं राजविलासोद्याने समेष्यन्ति, अतोयुष्मत्पुत्रस्यमरणं नृपहस्ते नैव भविष्यति । यद्येतत्कात्तिवसूनुंत्वं निवारयिष्यसि तदपि चतसृभिस्ताभिरेवतव पुत्रोहनिष्यते, उभयथाऽपित्वत्पुत्रस्य मरणं नूनं भविष्यति । मन्येऽहमधुना तवपुण्यं क्षीणतरं विद्यते । इत्युक्त्वा स यावदुत्थाय गच्छति तावत्तस्य करं गृहीत्वा 41८॥ श्रेष्ठी निजान्तिके स्थापयित्वा तं प्रणिपत्यसविनयंपप्रच्छ-बन्धो ? ममपुत्रो यथाजीवन्भवेत्, केनचित्साकंवैरश्चनस्यात्तादृशः कश्चिदुपायोविद्यते ? अस्तिचन्मय्यनुग्रहं विधायसद्यस्तंब्रूहि । ततः सदूतोऽवदत्-महेभ्य ? अस्मिन्समये कश्चिदन्यमुपायं नजानामि, परन्त्वेकंसाधनं विद्यते तच्छृणु-दुर्बलावस्थोऽहं गृहस्थितस्वजनदुःखपरम्परयाभृशंपीडितो गृहंपरित्यज्यात्रसमागतोऽस्मि, भवतःस्नेहवशाधदि मरणदायकमिदंदुश्चिन्त्यं कार्य विदधामि तदा तवपुत्रो जीवेनाऽन्यथा । एवं कृते सति मदपत्याना पालकोऽस्मिल्लोकेकोभवेद् ? तेषाश्चपोषणं भवान्कुर्याच्चेदहं सर्वसारभूतममूल्यमिदं जीवनं परित्यज्यत्वत्कार्य साधयामि । इत्थं नभवतिवचनं निशम्यतत्कथनानुसारेण श्रेष्ठिना निजसूनुश्चतुर्दिनरहसि रचितः । ततः श्रेष्ठिना राजसेव- IT कोऽभाणि-प्रियबन्धो ? यद्यस्माकमिदमहाकष्टं निर्विघ्नतया दूरीभविष्यति तदातुभ्यं वा तवापत्येभ्यो दशसहस्रदीनारान्दास्यामि, इतिसत्यंजानीहि, नभवतिरुवाच-व्यवहारिन् ? निश्चिन्तोभव, मयि जीवतितवपुत्रस्य किश्चिदपिव्यलीकं कर्तुप्रायेणकोऽपि समर्थोनास्ति । इत्थं श्रेष्ठिनं समाश्वास्य तत्पाद्विरस्योचितवस्त्राभरणादिकं समादाय निजवस्त्राश्चलेनतत्सर्व ॥८ ॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244