Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 187
________________ Shri Mahavir Jain Aradhana Kendra +1+++130-13++**+++8+6 www.kobatirth.org क्षत्रियकुलचूडामणिर्वर्त्तते, जन्मतः प्रारभ्य कस्मिमपि समये दुःखलेशं श्रुतिगोचरं नाकरोत् तथाऽपि स साम्प्रतं विपत्तिग्रहग्रस्त मार्गजनितश्रमचुत्पिपासानिद्रादिकष्टमनुभवन्नपि प्राप्तां विपत्तिं विनाशयितुं निजवचनञ्च परिपालयितुं मदनसेननरेशस्य तन्नगराधिपतेः शुश्रूषां चिकीर्षुः सन् सर्वजनानपृच्छत् - शीतातपक्षुत्पिपासादिविविधदुःखैः शुष्कश्यामशरीरत्वादयं राजकुमार इतितं कोपिनाज्ञासीत् । ततो दीनावस्थोऽयं कश्चिद्वैदेशिक इति विज्ञाय मदनसेननरेशेन निजपुत्र्याः सेवाकृते स रक्षितः । तदानीं प्रजापाल भूपेन नभवतीति स्वाभिधानं प्रख्यापितम् । तेन सर्वे नागरिका नृपामात्यादयो नभवतीत्याख्ययात माजुहुवुः । श्रथ नवहायना सा राजकन्यका प्रतिवासरं पाठशालायामध्येतुं प्रयाति, तया सह तद्रक्षणार्थं नभवतीतिसंज्ञकः प्रजापालः सदा व्रजति । पुनरध्ययनान्ते नृपकन्यां समानीय नृपराज्ञ्योः स्वाधीनां चकार । तस्यां पाठशालायां बहवो वाला विद्याभ्यासमकुर्वन्त । तत्रामात्यन्यायाधीशदुर्गपालानां तिस्रः पुत्र्यः पठितुमव्रजन् ताभिः सार्द्धमस्या राजपुत्र्याः सुदृढाप्रीतिर्जज्ञे । भोजनपानविहारादिकमपिताश्चतस्रः सहैव कुर्वन्तिस्म, क्षणमात्रमपि ता वियोगं सोढुं नशेकुः । विद्याभ्यासे दक्षमतयस्ताः कियता कालेन सूक्ष्मबुद्धिप्रभावेण काव्यकोशव्याकरणन्यायरहस्यं विज्ञायान्यान्यपिशास्त्राणि पेठुः, नवीनग्रन्थरचनामपिताश्चतस्रः स्वयमेवविदधुः । शिल्पादिविविध कलाकलापेषु पारगामिन्यश्च बभूवुः । प्रभूतगुणसंपन्ना महारत्नसमानास्ताः संप्रेच्य सर्वेनागरिकास्तन्मातापितरश्चामन्दंहर्षभेजुः । प्रेमदृष्टया ताएव निरीक्ष्य सर्वेजनाः स्वनेत्रसाफल्यं मेनिरे । अथान्यदाचतस्रस्ताः सहचर्यः संमील्यसंस्थितास्तस्मिन्समये प्रधानपुत्री जगाद - प्रियसख्यः १ साम्प्रतमस्माकं यादृचं गाढस्नेहनिबन्धनमस्ति तादृशमेव सर्वदा तत्स्थास्यति ? For Private And Personal Use Only *+++******+***++703++**+++++ Acharya Shri Kasagarsun Gyanmandir

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244