________________
Shri Mahavir Jain Aradhana Kendra
श्री अजितसेन
शीलवतीचरितम् ।
॥ ८१ ॥
****************************
www.kobatirth.org
सिच्यमानोऽपि पाषाणो न कदाप्यार्द्रतां दधाति । निजसङ्कल्पं सत्यापयितुकामः स सदुपदेशमपि नामन्यत यतः -अरण्यरुदितं कृतं शवशरीरमुद्वर्त्तितम् । श्वपुच्छमवनामितं यदुखरभूमिषु वर्षितम् । स्थलेऽब्जमवरोपितं बधिरकर्णजापः कृतः । धृतोन्धमुखदर्पणो यदबुधो जनः शिक्षितः ॥ १ ॥ बधिरात्रे वृथा गीतं, वृथाष्टष्टिर्महार्णवे । वृथा जन्म कुशीलानां, वृथामूर्खोपदेशनम् ॥ २ ॥ निजं शिक्षयतः सर्वाञ्जनानवमत्य बालचन्द्रो निजहस्तेनैव निजं गृहं प्रज्वालयामास । भस्मीभूते तस्मिन्गृहे तेन विज्ञातं पापिनस्तस्य जारस्य बलिदानमद्य यथार्थं सञ्जातमिति विदित्वा शान्तमनसा तेन जज्ञे । अथ मैनावती कार्यविधानदचा सन्ध्यासमयमासाद्यरहोगतांतां मञ्जूषामुद्वाट्य चन्द्रसेनं वहिर्निष्कास्य स्वस्थानं विसृज्य स्वयमपि मञ्जूषामादाय निजपितुर्गृहं जगाम । तत्र गत्वा सा साश्रुलोचनेव पितरं प्रावोचत रे ! तात ! धूर्चेन तवातिवल्लभ - जामाढकेनाकुलितार्चिभागिनी । समागताऽत्रास्मिमदीयरचां, कुरुष्व तहमद हि तेन ॥ १ ॥ इत्यादि मूलतः समारभ्यसर्वं वृचान्तं पित्रे निवेद्य सा तत्रैव दिवसान्निनाय । बालचन्द्रश्चान्यरध्यायां भाटकेन गृहीते वेश्मनि निवासं चकार । ततोऽन्यदा बालचन्द्रो निजापणं गत्वा चिन्ताचान्तमानसः स्थितस्तावच्चन्द्रसेनः सोत्साहस्तदन्तिके समेत्यतं मिलित्वा तदीयमुखमुद्रां विच्छायां विलोक्य बभाषे -रे मित्र ! चिन्तयसि किं विकलस्वभावः, किं लक्ष्य से स्मितविहीनमुखाकृतिस्त्वम् । किं वस्तु केन भवदीयमपाहृतं वा दुःखं निवेद्य सुहृदं भव हीनचिन्तः ॥ १ ॥ इत्थं चन्द्रसेनगिरं निशम्य बालचन्द्रो विस्मयमवाप्य मनसि विचिन्तयति-रे दैव १ दीनमनसो ममकीदृशोऽयं, वर्वर्त्ति कर्मजनितः प्रबलोविपाकः । यद्दृष्टशिचयकृते गृहमात्मनीनं, प्रज्वालितं सतुहहाकुशलः समस्ति ॥ १ ॥ एवं विकल्प्य
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
*O**************OK
तृतीय:
प्रस्तावः
॥ ८१ ॥