________________
Shri Mahavir Jain Aradhana Kendra
•*-*-*•* *•-*****-**-•*•*•→→→→€
www.kobatirth.org
निःश्वासपरम्परां विमुञ्चन् स परमं विषादमवाप । ततश्चन्द्रसेनेन गतदिवस्य सकलं वृचान्तं निजमित्राय न्यगादि । पुनः स जगाद - मित्र ! प्रमादवशतोऽपि कदापि तत्र, नातः परं ककुभि हा गमनं विधास्ये । तद्दृष्टकर्मकरणाद्विरतोऽधुनाई, प्राणचयोभवति येन सृतं तकेन ॥ १ ॥ इति चन्द्रसेनगदितं वचनं निशम्य बालचन्द्रः स्वमनसि व्यचिन्तयत् - अहो ! कीदृशमेतदाश्चर्यम् ? कस्याग्रे निवेदनीयमिदम्, अयं चत्रियसुतो मदीयभार्यया सह रतिसुखं भुनक्ति, तच्च सकलं वृचान्तं मदन्ति समागत्यमा निवेदयति । तथाऽपि स जारोमद्धस्तगतो न भवति । श्रतोऽस्मिन्कार्ये मया के उपायो विधातव्यः । इति पर्यालोचयतस्तस्य मनसीतिविस्फुरितम् । अनेनैव चत्रियसुतेन निजश्वशुरमिदं वृत्तान्तं श्रावयित्वा तदात्मजाया दुराचारं ज्ञापयित्वा गृहदहनादिकञ्श्चसर्व ख्यापयित्वा तस्य मनःसमाधानं करोमि । यद्वृत्तान्तविज्ञानेन तस्य क्रोधाग्निः प्रशमिष्यति । एवं निश्चित्य बालचन्द्रो निजश्वशुरालयं जगाम । संजातरोपश्वशुरं निरीक्ष्य विनम्रमूर्त्तिः स प्रार्थयन्प्राह- पूज्य ? क्षमस्व बतमामकमेकदोषं, दोषप्रबन्धमपि शिष्टजनाः चमन्ते । कृत्वा प्रसादमतुलंमयि भोजनार्थ, प्रातस्त्वया मम गृहे गमनं विधेयम् || १ || यतस्त्वं सर्ववृत्तान्तं मदीयंज्ञास्य सिस्फुटम् । तदैवतवसन्तापो - नंक्ष्यति नैवसंशयः ॥ २ ॥ इति बालचन्द्रस्यदृढाग्रहेण तेन निमन्त्रणं स्वीचक्रे । ततस्तेनवालचन्द्रेण चन्द्रसेनोऽपि भोजनार्थं निमन्त्रितः । द्वितीयस्मिन्दिने वालचन्द्रेण मधुरास्वादा विविधप्रकारा रसवती प्रगुणीकृता । भोजनावसरे निजश्वशुरश्चन्द्रसेनश्च समायातौ ताभ्यां सह बालचन्द्रः स्वानंविधाय परिहितविशुद्धवसनास्ते त्रयोऽपि भोक्तुमुपविष्टाः । विचित्रस्वादसिद्धानि भोज्यानि समास्त्राद्यतृप्तिमापन्नाः पूगीफलताम्बूलादिकं गृहीत्वा ते चैकस्मिन्वेश्मभागे निषेदुः । मेनावत्यपि किञ्चिद्दूरे निषयाऽस्ति । तदानीं बाल
For Private And Personal Use Only
charya Shri Kaliassagarsun Gyanmandir
R+193+++++******