________________
Shri Mahavir Jain Aradhana Kendra
*40*********000
www.kobatirth.org
याहि त्वं सुखिनी भव । किं त्वया क्लेशकारिण्या, नास्ति मे त्वत्प्रयोजनम् ॥ १ ॥ मदीयं गृहमेतद्धि ज्वालयामि न संशयः । संसारावासखिन्नस्य, कुतः स्यात्सद्विचारणा ? ॥ २ ॥ निजपतिवचनं निशम्य मेनावती तं प्रतिजगाद - स्वामिन् ! इदानीं भवतो हृदयं मिथ्याभ्रमेण विभिन्नं जातमस्ति तस्मादेवेदृशी मलीमसा कार्यविमुखा भवदीया मतिकल्पना समुज्जृम्भिता । मञ्जनकस्य पञ्चसहस्ररूप्यकस्त्वं धारयसि द्विसहस्ररूप्यकक्रीतमिदं गृहमपि मत्पित्रा प्रदत्तं नचि । तस्तदृणं वृथाकर्तुमयं समारम्भस्त्वया मण्डितः । त्वदीयः प्रपश्चो मया विज्ञातपूर्वः, गृहं प्रज्वान्य जठरपिठरं सुखेन पूरयिष्यसि तदहं विलोकयष्यामि इत्थं वदन्त्या बहुमानितायास्तस्याश्चतुर्थपत्न्या वचनमनादृत्य श्रेष्ठी तां दूरीकृत्य तद्गृहं यावत्प्रज्वलयितुं प्रारेभे तावन्मेनावती तं प्रोवाच- स्वेच्छाचारिन् ! भवदीयमिदं वेश्म खण्डश विभिद्याधः पातय, किं वा वह्निना प्रज्वान्य सद्योभस्मीकुरु, साम्प्रतं त्वां न निवारयामि । तथाऽपि ममजनकगृहाद्वस्त्राभरणसंरचणार्थ समानीतेयं मञ्जूषा मदीया वर्त्तते तस्याः स्वामित्वं त्वदीयं नास्ति । अतस्तां मञ्जूषां गृहीत्वा यामि तदनन्तरमिदं गृहमेकदेशतः सर्वतो वा त्वयाप्रज्वान्यताम् । एतावदुक्त्वा सा भारवाहचतुष्टयं समाकार्यतैस्तां पेठां समुत्पाट्य समीपवर्त्तिनि कस्यचिद्गृहान्तरे मोचयामास । ततः साधूर्त्ता प्रतिष्ठेतान् पौरमुख्याञ्जनान्समाहूय निजाभिप्रायं न्यवेदयत् श्रयं ममपतिर्भ्रान्तोविपरीतमतिः स्वयम् । निर्हेतुकनिदं वेश्म, प्रज्वालयितुमुद्यतः ॥ १ ॥ न जाने कीदृशी बुद्धि-रस्वास्ति तुभिनात्मनः । बालोऽपि स्वहितं वेत्ति, स्वावासं कोविनाशयेत् १ ।। २ ।। स्वहितं यो न जानाति क्रोधाम्बुनिधिमञ्जितः । स नरो जायते लोके, शायैव पदे पदे ॥ ३ ॥ इत्थं मेनावत्याः प्रलापं निशम्य सर्वैर्नागरिकैर्वारितोऽपेिस निजाग्रई न मुमोच । वर्षशतैः
For Private And Personal Use Only
Acharya
**@**•**••************
Kallissagarsun Gyanmandir