Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 166
________________ तृतीयः प्रस्तावः। अजितसेन शीलवतीचरितम् । ॥७६॥ वास्मत्सन्निधाववशिष्टमेकमपि प्रवहणमधुनानविद्यते, यस्मात्तत्सजीकृत्य वयंशीघ्रं गच्छामः ? सर्वाणि प्रवहणानि गृहीत्वा सार्थवाहः प्रयातोऽस्ति । इत्थं नाविकोक्ति समाकमेनिःश्वसन्भूपतिः स्वचेतसिव्यचिन्तयत्-अहो ? पापचारिण्या महाधूर्तयाऽनया पांसुलया पाखण्डजालेनाहं प्रतारितः, जन्मतः प्रारभ्यभूमिगृहे संरचिताऽकृतान्यजनसंसर्गा मय्यसाधारणस्नेहधारिणी विशुद्धशीलाऽपिसा मावश्चयित्वा चैतादृशमकृत्यमकार्षीत् । तस्माद्धिकबीचरित्रम् । यतः-पोषिताऽपि प्रिया सम्यक् , भूरियत्नेन रक्षिता । वश्चयित्वा स्वभारं, क्रीडत्यन्येनधिग्वशाम् ।। १ ।। इत्थं भूपतिः संशयविषादविस्मयनिर्वेदरूपायामापत्तौ निपपात । तस्मिन्समये तत्रैवसागरोपकण्ठे सुरासुरनरेन्द्रवन्दितचरणकमलः केवली भगवान्सहसा समाजगाम, निजकान्तिभिः सहस्ररश्मि तर्जयन्तं भगवन्तं केवलिनं विलोक्य प्रफुल्लनयनोनयविचक्षणोनृपतिर्जहर्ष । भगवतः पादयुगलं वन्दित्वा पातालसुन्दर्याश्चरित्रं तेनपपृच्छे-केवली भगवानपि ज्ञाननिधिस्तस्याः सकलं पापचेष्टितचरित्रं कथयामास । तच्छुत्वानृपतिः संसारस्यासारता विज्ञाय वैराग्यवासितो बभूव । राज्यादिकं सर्व कारागृहोपमं विदित्वा त्यक्तसर्वपरिग्रहः सनरन्द्रो भगवतः केवलिनश्चरणान्तिके दीक्षां गृहीत्वा सप्तमेदिने केवलज्ञानमवाप । ततः केवलज्ञानेन सर्वभावान्करतलगतानिव विलोकयन्स विविधान्देशान्पावयन् भव्यजनान्देशनामृतं पाययन्कियताकालेनकर्माणि चपयित्वा मोक्षं जगाम । अतो नराधीश एतावद्भिरुपायैः सुरक्षिताऽपि पातालसुन्दरी कुलटाजनि, तर्हितादृक्साधनविहीनस्यास्यवणिजः स्वेच्छाचा. रिणी भार्या कुसती भवेत्तत्रका संशयितो भवेद् ? धूर्चखियोमेनासुन्दरीवदसदाचार सेवमानामपि निजचरित्रेणान्यानिजसतीत्वं दर्शयन्ति । इति प्रधानवचनं समाकर्ण्य राजातंपृच्छतिस्म-केयं मेनासुन्दरी ! किश्चतयाविहितम् ? तत्स्वरूपं ब्रूत । ॥७ ॥ For Private And Persone ly

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244