________________
तृतीयः
प्रस्तावः।
अजितसेन शीलवतीचरितम् ।
॥७६॥
वास्मत्सन्निधाववशिष्टमेकमपि प्रवहणमधुनानविद्यते, यस्मात्तत्सजीकृत्य वयंशीघ्रं गच्छामः ? सर्वाणि प्रवहणानि गृहीत्वा सार्थवाहः प्रयातोऽस्ति । इत्थं नाविकोक्ति समाकमेनिःश्वसन्भूपतिः स्वचेतसिव्यचिन्तयत्-अहो ? पापचारिण्या महाधूर्तयाऽनया पांसुलया पाखण्डजालेनाहं प्रतारितः, जन्मतः प्रारभ्यभूमिगृहे संरचिताऽकृतान्यजनसंसर्गा मय्यसाधारणस्नेहधारिणी विशुद्धशीलाऽपिसा मावश्चयित्वा चैतादृशमकृत्यमकार्षीत् । तस्माद्धिकबीचरित्रम् । यतः-पोषिताऽपि प्रिया सम्यक् , भूरियत्नेन रक्षिता । वश्चयित्वा स्वभारं, क्रीडत्यन्येनधिग्वशाम् ।। १ ।। इत्थं भूपतिः संशयविषादविस्मयनिर्वेदरूपायामापत्तौ निपपात । तस्मिन्समये तत्रैवसागरोपकण्ठे सुरासुरनरेन्द्रवन्दितचरणकमलः केवली भगवान्सहसा समाजगाम, निजकान्तिभिः सहस्ररश्मि तर्जयन्तं भगवन्तं केवलिनं विलोक्य प्रफुल्लनयनोनयविचक्षणोनृपतिर्जहर्ष । भगवतः पादयुगलं वन्दित्वा पातालसुन्दर्याश्चरित्रं तेनपपृच्छे-केवली भगवानपि ज्ञाननिधिस्तस्याः सकलं पापचेष्टितचरित्रं कथयामास । तच्छुत्वानृपतिः संसारस्यासारता विज्ञाय वैराग्यवासितो बभूव । राज्यादिकं सर्व कारागृहोपमं विदित्वा त्यक्तसर्वपरिग्रहः सनरन्द्रो भगवतः केवलिनश्चरणान्तिके दीक्षां गृहीत्वा सप्तमेदिने केवलज्ञानमवाप । ततः केवलज्ञानेन सर्वभावान्करतलगतानिव विलोकयन्स विविधान्देशान्पावयन् भव्यजनान्देशनामृतं पाययन्कियताकालेनकर्माणि चपयित्वा मोक्षं जगाम । अतो नराधीश एतावद्भिरुपायैः सुरक्षिताऽपि पातालसुन्दरी कुलटाजनि, तर्हितादृक्साधनविहीनस्यास्यवणिजः स्वेच्छाचा. रिणी भार्या कुसती भवेत्तत्रका संशयितो भवेद् ? धूर्चखियोमेनासुन्दरीवदसदाचार सेवमानामपि निजचरित्रेणान्यानिजसतीत्वं दर्शयन्ति । इति प्रधानवचनं समाकर्ण्य राजातंपृच्छतिस्म-केयं मेनासुन्दरी ! किश्चतयाविहितम् ? तत्स्वरूपं ब्रूत ।
॥७
॥
For Private And Persone
ly